________________ पटले, 13-17 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः हेमाभेत्यादिना / तत्रैकसमरसाच्चन्द्रशुक्रस्वभावेन भगवत उत्पादः, सूर्यरजःस्वभावेन देव्या उत्पादः / तत्र श्वेतकृष्ण'धर्मा चन्द्रः, रक्तपीत धर्मा सूर्यः। तेन हेमाभा वेदवत्रा चतुर्मुखा वसुकरकमला अष्टभुजाग्रत आलिङ्गिता विश्वमाता। तस्याः प्रथमकरे दक्षिणे, कतिका, द्वितीयेऽङ्कशः, तृतीये सरवडमरुकः, चतुर्थे अक्षसूत्रमिति / वामे प्रथमकरे शुक्तिः, द्वितीये पाशः, तृतीये शतदलकमलं धवलम्, चतुर्थे दिव्यरत्नं तथैव च / एवमालीढो भगवान् प्रत्यालोढा विश्वमाता / अर्कनेत्रा द्वादशनेत्रा जिनपतिमुकुटा वनसत्त्वमुकुटा / मुद्रिता पञ्चमुद्राभिः समापत्तिस्था // 15 // अष्टौ देव्योऽष्टपत्रे वसुकरकमला वेदवक्त्रार्कनेत्राः कोणे तासां चतस्रस्त्वहिचमरधरा वक्त्रभेदैजिनस्य / ईशे नैऋत्यकोणे शिखिनि च पवने धर्मशङ्खश्च गण्डी एवं चिन्तामणिः स्याद् भवति खलु तथा कल्पवृक्षक्रमेण // 16 // 10 तस्या विश्वमातुर्ज्ञानपारमिताया अन्तर्भाविता अपराः पारमिता दानादयः पारमिता अष्टपत्रे ध्वष्टौ देव्यः। ता वसुकरकमला अष्टभुजाः, वेदवक्त्राश्चतुर्मुखाः, अर्कनेत्रा द्वादशलोचनाः। तासां मध्ये चतस्रोऽहिचमरधरा अष्टभुजैरष्टचमरधराः। चतु:कोणे वक्त्रभेदैजिनस्येति। अग्नौ कृष्णा, नैर्ऋत्ये रक्ता, वायव्ये पीता, ईशाने शुक्ला / एवं तासां "पृष्ठत ईशे धर्मशः शुक्लः, नैऋत्ये धर्मगण्डी रक्ता, शिखिनि चिन्तामणिः कृष्णः, वायव्ये कल्पवृक्षः[258a] पीत इति। एवं पूर्वपत्रे कृष्णा, दक्षिणे रक्ता, . उत्तरे श्वेता, पश्चिमे पीतदीप्तेति / यथा भगवतो मुखभेदश्चतुर्दिक्षु भेदेन तथा देवीनां विश्वमातुः प्रथमं मुखं हेमाभम्, दक्षिणं शुक्लम्, वामं रक्तम्, पश्चिमं नीलम् / एवं पीतानां देवीनाम् / शुक्लानां शुक्लं पूर्वम्, दक्षिणं कृष्णम्, पश्चिम रक्तम्, वामं पीतम् / रक्तानां प्रथमं रक्तम्, दक्षिणं पीतम्, वामं नीलम्, पश्चिमं शुक्लम्। कृष्णानां पूर्वं कृष्णम्, वामं शुक्लम्, पश्चिमं पीतमिति / गर्भपद्मदेवीनां यथा भगवत्या अलङ्काराः पञ्चमुद्रास्तथा ज्ञातव्या इति नियमः / / 16 // 20 T341 इदानीं कृष्णदीप्तादीनां सव्यवाम"हस्तेषु 'चिह्नान्युच्यन्तेकृष्णाया धूपपात्रं प्रथमकरतले शीतपात्रं द्वितीये पिष्टं रक्तं तृतीये समदशशपरं सव्यहस्ते चतुर्थे / ...... 1. ग. च. भो. धर्मी / 2. ग. धर्म, च. भो. धर्मी / 3. च. मितायाः, ग. दानादया परा पारमिता। 4. क.ख. ग. छ. पत्रेऽष्ट / 5 ग. च. भो. पृष्ठ / 6. ग. दक्षिणे / 7. ग. वामे / 8. क. ख. छ. पश्चिमे / 9. च. पूर्व शुक्लम् / 10. क. ख. छ. हस्ते / 11. क. ख. ग. च. छ. चिह्नम् / 21