________________ 10 विमलप्रभायां [साधना-. इदानीमस्त्रवृन्दमुच्यतेकृष्णे रक्त च शुक्ले प्रवरकरतले संस्थितं चास्त्रवृन्दं वज्र खड्गस्त्रिशूलं भुवनभयकरा कतिका वह्निबाणः / तस्माद् वज्राङ कुशो वै सरवडमरुको मुद्गरश्चक्रमेव कुन्तो दण्डः कुठारो रविकरकमले दक्षिणे वज्रिणश्च / / 13 / / कृष्ण इत्यादिना / कृष्णे करतलचतुष्के प्रथमे वज्रम, द्वितीये खङ्गः, तृतीये त्रिशूलम्, चतुर्थे कतिकेति / तथा रक्त करतलचतुष्के प्रथमेऽग्निबाणः, द्वितीये वज्राङ्कशः, तृतीये 'रणड्डमरुकः, चतुर्थे मुद्गर इति / तृतीये शुक्ले करतलचतुष्के प्रथमे करतले चक्रम्, द्वितीये कुन्तः, तृतीये दण्डः। चतुर्थे पशुरिति दक्षिणेऽस्त्रवृन्दम्, रविकरकमले दक्षिणे वज्रिणश्चेति // 13 // इदानीं वामकृष्णकर तलचतुष्के चिह्नमुच्यते- . . घण्टा खेटं च खट्वाङ्गविकसितमुखं रक्तपूर्ण कपालं कोदण्डं पाशरत्ने कमलजलचरौ दर्पण: शृङ्खला च। वेदास्यं ब्रह्मणो यच्छिरकमलमलं वामहस्ते जिनस्य कुर्वन्त्यो दीनवक्त्रं धृतचरणतले माररुद्रस्वदेव्यौ // 14 // प्रथमे वज्रघण्टा, द्वितीये खेटम्, तृतीये खट्वाङ्ग विकसितमुखम्, चतुर्थे रक्तपूर्ण कपालमिति / तथा रक्ते करतलचतुष्के प्रथमे कोदण्डम्, द्वितीये पाशः, तृतीये मणिरत्नम्, चतुर्थे श्वेतकमलमिति / तथा शुक्ले करतलचतुष्के, प्रथमकरतले जलचर इति शङ्खः, द्वितीये दर्पणः, तृतीये वज्रशृङ्खला, चतुर्थे ब्रह्मशिर इति / एवं वेदास्यं ब्रह्मणो यच्छिरकमलमलं "भूषणं वामहस्ते जिनस्येति। तत्र माररुद्रसंनिधाने कुर्वन्त्यो दीनवक्त्रं धृतचरणतले माररुद्रयोः स्वदेव्यौ रतिर्मारस्य, उमा रुद्रस्येत्यक्षोभ्यप्रवेशः // 14 // [257b] इदानीं विश्वमातालक्षणमुच्यतेहेमाभा वेदवक्त्रा वसुकरकमलालिङ्गिता विश्वमाता सव्ये कत्यंङ कुशो वै सरबडमरुकश्चाक्षसूत्रं क्रमेण / वामे शुक्तिश्च पाशः शतदलकमलं दिव्यरत्नं तथैव प्रत्यालीढार्कनेत्रा जिनपतिमुकुटा मुद्रिता मुद्रिकाभिः // 15 // 1. ग. 'रणत्' नास्ति / 2. ग. च. परशु / 3. च. वामे / 4. ख. छ. तले / 5. च. 'भूषणं' नास्ति।