________________ पटले, 10-12 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः 159 करालमिति कायनिष्पत्ती काय'विज्ञानाधिपतेर्लक्षणम् / मध्ये मण्डलकमलकर्णिकायां 'स्वशरीरान्तर्भूतो देवताविन्यासो मण्डलाकार उच्यते // 10 // श्रीमत्योङ्कारजाते जिनपतिकमले चन्द्रसूर्याग्निमध्नि रुद्रानङ्गद्वयोर्हत्सुललितचरणालीढपादं जिनेन्द्रम् / मारो रक्ते च सव्ये वरचरणतले शुक्लवामे च रुद्रो मध्यं सव्यावसव्यं भ्रमररविनिभं चन्द्रवर्णं च कण्ठम् // 11 // श्रीमति ॐकारजाते जिनपतिकमले हृत्कमले चन्द्रसूर्याग्निमूनि ललनारसनाऽवधूतीमूनि रुद्रानङ्गयोद्वंयोरिक्लेश पक्षयोमिदक्षिणप्रवा[256b]हयोः, हदि सललितचरणालोढपाद जिनेन्द्रमिति। तत्र मारः कामदेवः पञ्चपूष्पबाणधनुर्हस्तः पाशाङ्कशधरश्चतुर्भुज एकवक्त्रो रक्तवर्णः सव्ये पादतले रक्त वर्णः। तथा रुद्रस्त्रिनेत्र 10 एकाननश्चतुर्भुजस्त्रिशूलडमरुकपालखट्वाङ्गधरो वामपादतले शुक्ले शुक्ल इति / एवं नीलाङ्गं तथा मध्यकण्ठं नीलं दक्षिणे" रविनिभं रक्तम् / अवसव्यं वामं चन्द्रवर्ण शुक्लमेवं त्रिकण्ठं पूर्वोक्तविधानात् / पूर्वमुखं कृष्णं दंष्ट्राकरालोग्रम् / दक्षिणं. सरागं रक्तं वाम प्रशान्तं शुक्लम् / पश्चिमं समाधिस्थं पीतम्। जटामुकुटे विश्ववज्रम् अर्धचन्द्रं वज्रसत्त्वमुकुटं। वज्रमणिवज्रकुण्डलवज्रकण्ठिकावज्ररुचकवज्रमेखला- 15 वज्रनूपुरवज्रपट्टवज्रमालाव्याघ्रचर्माम्बरधरम् // 11 // स्कन्धं नीलं च रक्तं शशधरधवलं दक्षिणे चोत्तरे घ द्वौ द्वौ सव्यावसव्येऽसितरविवपुषी बाहवश्चन्द्रवर्णाः / तद्वद् वै त्र्यष्टकेन प्रहरणसहिताः पाणयश्च क्रमेण पञ्चाङ गुल्यस्त्रिपर्वाः शशिकरकमले पञ्चवर्णाः स्फुरन्त्यः // 12 // 20 तथा दक्षिणस्कन्धं प्रथमं नीलं द्वितीयं रक्तं तृतीयं शुक्लम् / एवमुत्तरे च / एवं द्वौ बाहू नीलो द्वौ रक्तौ द्वौ शुक्लौ दक्षिणे चोत्तरे च। एवं कराश्चत्वारः कृष्णाः। चत्वारो रक्ताः / चत्वारः शुक्लाः / दक्षिणे चोत्तरे च / ते च वक्ष्यमाणप्रहरणैः सहिताः। एवं प्रत्येककरे पञ्चाङ्गुल्यस्ताः प्रत्येकास्त्रिपर्वाः। अङ्गुष्ठः पीतः। तर्जनी शुक्ला। मध्यमा रक्ता / अनामिका कृष्णा / कनिष्ठा हरिता। हस्ततलात् सर्वाङ्गलीनां प्रथमा 25 पर्वपङ्क्तिः कृष्णा / द्वितीया रक्ता। तृतीया शुक्लेति। एवं शशिकरकमले प्रत्येक पञ्चवर्णास्ता मुद्रिकाभिः स्फुरन्त्यः। "इत्यविद्यासंस्कारविज्ञानानु"प्रवेशनियमो गर्भे तृतीयमासः प्रथममात्रा // 12 // [257a] १.च. 'वि' नास्ति / २.क.ख.छ. 'स्व' नास्ति / 3. क. ख. च. भो. यक्ष / 4. च. वर्णे / 5. ग. च. क्षिणं / 6. भो. 'कनिष्ठा हरिता' इत्यनन्तरं 'ताः..." पर्वाः' अयं पाठः। 7. क ख. च. छ. प्रथम / 8. ग. च. त्येके / 9. ग. स्फर / 10. भो. De ITar ( एवं)। 11. भो. rNam Par Ses Pa rNams ( विज्ञानानि)।