________________ 10 पटले, 6-8 श्लो.] उत्पत्तिक्रमेण कायनिष्पत्तिमहोद्देशः 155 (2) उत्पत्तिक्रमण कायनिष्पत्तिमहोद्देशः इदानीं 'पूर्वप्रणिधानपरिपूरणाय धर्मचक्रप्रवर्तनाथ गर्भावक्रमणन्यायेन भगवत उत्पत्तिक्रमेण साधनमुच्यते शून्यं वाय्वग्नितोयान्यवनिसुरनगाब्जेन्दुसूर्याग्नयश्च कूटागारं समन्तात् स्फुरदमलकरं वज्रजं पञ्जरं वा। तन्मध्ये वज्रभूमी मणिकरनिकरैर्मण्डलं विस्फुरन्तं *कारं ज्ञानजातं जिनवरकमलं चन्द्रसूर्यासनानाम् // 8 // शून्यमित्यादिना। इह बाह्ये अध्यात्मनि उत्पत्तिनिमित्तमनन्ताकाशधातुः प्रज्ञाधर्मोदयं त्रिकोणम् / बाह्ये वर्तुलं दशारवज्रमयं म] मातृशरीरमध्यात्मनि तत्र बाह्ये वायुमण्डलं मध्ये धन्वाकारं तिर्यङ्मानेन चतुर्लक्षयोजनं यँकारबीजपरिणतं कृष्णमध ऊध्वं हूँकारपरिणतविश्ववज्रद्वयसहितं ध्वजाङ्कितम् / तदुपरि त्रिलक्षयोजनायाम रंकारपरिणतं त्रिकोणं वह्निमण्डलमध ऊवं हूँकारपरिणतं विश्ववज्रद्वयसहितं रक्तं स्वस्तिकाङ्कितम् / तदुपरि तोयमण्डलं द्विलक्षयोजनं वकारपरिणतं 'शुक्लमध ऊर्ध्वं हूँकारपरिणतं विश्ववज्रद्वयसहितं पद्मलाञ्छितं वृत्तम् / तदुपरि लँकारपरिणतं पृथ्वीमण्डलं चतुरस्रं पीतवर्णमध ऊवं हूँकारपरिणतविश्वज्रद्वयसहितं वज्रलाञ्छितं लक्षयोजनम् / तदुपरि मँकारपरिणतं वज्रमयं महामेरुमधो विस्तारेण षोडशसहस्रम् ऊध्वं पञ्चाशत्सहस्रं तन्मध्ये विश्वाब्जे मेरुप्रमाणार्धेन क्षकारपरिणतम्। तस्य त्रिभागिका कणिका तुल्यं 'सार्धद्वादशसहस्रयोजना यामात् क्षकारपरिणता। तदुप[254b]रि हँकारपरिणतं चन्द्रमण्डलं कणिकातुल्यम् / तदुपरि विसर्गपरिणतं सूर्यमण्डलम् / तदुपरि अग्निरिति राहुमण्डलं नीलवर्ण बिन्दुपरिणतम् / एवं समस्तमेकलोलोभतं ह. क्षमलव र य इति बीजाक्षरं विभाव्य ततो लोकधातं निष्पन्नं 'चिन्तयेदिति बाह्ये। अध्यात्मनि मातृशरीरे ललाटे पूर्वोक्तविधिना वायुमण्डलं कण्ठे तेजोमण्डलं हृदये तोयमण्डलं नाभौ पृथ्वीमण्डलम् / नाभेर्गुह्यकमलपर्यन्तं महामेरुः। गुह्यकमलं 'भगवतः कमलमिव / विण्मूत्रशुक्रवाहिन्यस्तिस्रो नाड्यश्चन्द्रसूर्यराहुमण्डलानि / गुह्यकमलकर्णिकायां समाहारस्तेषामिति / एवं तदुपरि कूटागारं / समन्तात् स्फुरदमलकरं वज्रजं हूँकारजं वज्रपञ्जरं वा, मातृयोनी सकुलिशकमलम् (का. त. 5.120 )इति ज्ञापकात् / तेनैव वज्रमयं पञ्जरं वा तन्मध्ये वज्रभूमौ भुंकारपरिणतं ॐकारपरिणतं वा मणिकरनिकरैमण्डलं विस्फुरन्तम् ॐकारं ज्ञानजातं जिनवरकमलं चन्द्रसूर्यासनानामिति चित्तमण्डलं भूवलयान्तम् // 8 // 15 20 T339 1. च. भो. 'पूर्व' नास्ति / 2. क.ख. च. छ. दशाकार / 3. ग. 'शक्ल' नास्ति / 4. ग. च. भो. 'तुल्यं नास्ति / 5. भो. 'सार्ध""णता' नास्ति / 6. ग. याम / 7. च. विचि। 8. भो. Mihi Lus La (नृशरीरे)। १.च, भगवत् /