________________ 10 154 विमलप्रभायां [ साधना-. शून्यमित्यादिना / शून्यं भावाद् विहीनं सकलजगदिदं वस्तुरूपस्वभावं 'यत्तस्मान्महाशून्याच्च बुद्धो न बोधिः परहितकरुणा न / एवं चानिमित्तप्रतिज्ञा बुद्धो भवेयं जगतो हितायेति / एवं ज्ञात्वा समस्तं बुद्धत्वाय / तदपि नरपते कायवाक्चित्तवत्रं ध्यातव्यं बोधिसत्वैरपरिमितगुणं मण्डले मण्डलेशमिति / कायवाक्चित्तमण्डले कायवाक्चित्तवनं ध्यातव्यं नायकं लौकिकफलसाधनाथ "सर्वसत्त्वसंदर्शनायेति भगवतो नियमः॥६॥ इदानीं लोकोत्तरस्कन्धग्रहणाय सांसारिकस्कन्धपरित्यागाय समाधिरुच्यतेतोयेनाग्नेविनाशं प्रथममिह यतिः कारयेद् देहमध्ये पश्चात्तोयं धरित्री भवति लवणवत्तोयमध्ये प्रविष्टा / अन्तर्धानं हि वायुर्वजति नभसि तच्छोषयित्वाम्बुराशि चित्तं वह्नौ तमोऽन्ते विषयविरहिते स्थापयेन्मध्यभूमौ // 7 // तोयेनेत्यादिना। इह मत्र्ये गर्भजानां मरणकाले तोयेनाग्नेविनाशः क्रियते। अतस्तेनैव समाधिना तोयेनाग्नेविनाशं प्रथममिह यतिः कारयेद् देहमध्ये। पश्चादग्ने'रभावाद् धरित्री कठिनतां त्यक्त्वा लवणवद् द्रवीभूता तोयं भवति तोयमध्ये प्रविष्टा / ततो वायुस्तत्समस्तं तोयं शोषयित्वा नभस्यन्तर्धानं प्रयाति / एवं धातुसमूहस्य विनाशं शीघ्रम् / ततश्चित्तं वह्नौ तमोऽन्ते आकाशधातौ सर्वाकारबिम्बे विषयविरहिते स्थापयेद् मध्यभूमो, आलयविज्ञानमिति। तत इदं मन्त्रमुच्चारयेत् ॐ शून्यताज्ञानववस्वभावात्मकोऽहम् / ॐ अनिमित्तज्ञानवज्रस्वभा[254a]वात्मकोऽहम् / ॐ अप्रणिहितज्ञानववस्वभावात्मकोऽहम् / ॐ अनभिसंस्कारज्ञानवज्रस्वभावात्मकोऽहम्, इत्युच्चार्य वैधातुकं परमाणुधर्मतातीतं "शून्यताबिम्बं 'विभावयेदिति तथागतनियमः // 7 // इति श्रीमूलतन्त्रानुसारिण्या लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायां साधनापटले स्थानरक्षापापदेशनादिमहोद्देशः प्रथमः // 1 // 20 1. च. यतस्तस्मा। 2. च. मित्ता। 3. ख. 'इति' नास्ति / 4. च. येति / 5. च. 'सर्व..."येति' नास्ति / 6. ग. द्वह्नः। 7. च. शून्य विभा। 8. ग. 'वि' नास्ति / ९.क.ख.च. छ. 'श्री' नास्ति / 10. च. 'द्वाद"कायां' नास्ति /