________________ 5 10 पटले,-३-६ श्लो.] स्थानरक्षापापदेशनादिमहोद्देशः बुद्धं [253a] धर्म च संघं भवभयहरणं बोधिसीम्नः प्रयामि संबुद्धोऽहं भवामि प्रणिधिमिति करोम्यत्र सत्त्वार्थहेतोः // 5 // संबुद्धर्बोधिसत्वैर्बहुविधकुशलं यत्कृतं चार्यसंधैरनुमोदे तत् समस्तं व्यपगतकलुषो बोधिचर्यानुरूढो मन्त्री / ततस्त्रिशरणं गच्छति-बुद्ध धर्म च संघ भवभयहरणं बोधिसोम्नः प्रयामि। 'एवं त्रिशरणं गत्वा आत्मनिर्यातनं कृत्वा ततः सत्त्वार्थाय प्रणिधानं करोति-संबुद्धोऽहं भवामि प्रणिधिमिति करोम्यत्र सत्त्वार्थहेतोरिति / एवं वन्दना पूजना पापदेशना पुण्यानुमोदना तथागतानामध्येषणा याचना पुण्यपरिणामनेति। एवं सप्तविधां पूजां कृत्वा तत्र त्रीणि मूलानि स्मरेत्, बोधिचित्तोत्पादः, आशयविशुद्धिः, अहंकारममकारपरित्यागः कर्तव्यः। ततो दश पारमिताश्चिन्तयेत् / पुण्यज्ञानशीलसंभारार्थ दानपारमिता। एवं शील क्षान्तिवीर्यध्यानप्रज्ञा-उपायप्रणिधिबलज्ञानपारमिता विचिन्त्य ततो ब्रह्मविहारान् स्मरेत् मैत्रीकरुणामुदितोपेक्षामिति / ततश्चत्वारि संग्रहवस्तूनि "चिन्तयेत्, दानं प्रियवाक्यमर्थचर्यां समानार्थतामिति। ततो दशाकुशलपरित्यागं विभावयेत् प्राणातिपातम् 'अदत्तादानं काममिथ्याचारं मृषावादं पारुष्यं पैशुन्यं संभिन्नप्रलापम् अभिध्यां व्यापादं कुदृष्टिं चेति / एवं कौकृत्यस्त्यानमिद्धौद्धत्यविचिकित्सेति पञ्चावरणानि परित्यजेदेवं रागद्वेषमोहमानक्लेशान् परित्यजति / एवं कामा श्रवं भवाश्रवम् अविद्याश्रवं दृष्ट्याश्रवं त्यक्त्वा ततश्चतुर्विमोक्षं विभावयेत्, शून्यतामनिमित्तमप्रणिहितमनभिसंस्कारमिति विभाव्य त्रेधातुकं सचराचरं विचारयेदनया गाथया . अभावे भावनाभावो भावना नैव भावना। इति भावो न भावः स्याद्भावना नोपलभ्यते // इति / (गु त. 2.3 ) अस्यार्थो वक्ष्यमाणे वक्तव्यः // 5 // इदानीं पुनर्भवग्रहणाय शून्यतालक्षणमुच्यतेशून्यं भावाद् विहीनं सकलजगदिदं वस्तुरूपस्वभावं तस्माद् बुद्धो न बोधिः परहितकरुणा चानिमित्तप्रतिज्ञा / एवं ज्ञात्वा[253b] समस्तं तदपि नरपते कायवाक्चित्तवज्रं ध्यातव्यं बोधिसत्त्वैरपरिमितगुणं मण्डले मण्डलेशम् // 6 // 1. क. ख. ग. च. छ. 'एवं' नास्ति / 2. क. ख. मिता, च. छ. मितां विचि / 3. च. शीलज्ञान / 4. छ. 'क्षान्ति' नास्ति। 5. च. विचि / 6. ग. च. मषा. अदत्ता० काम अयं क्रमः / 7. भो. च. 'आस्रवं' सर्वत्र / 8. च. क्षान् / 20