________________ 152 विमलप्रभायां [ साधना: हत्या पूर्वोक्तरक्षामित्यभिषेकपटलोक्तरक्षां कृत्वा / खलु मृदुशयने 'चासने चोपविश्येति स्थाननियमः // 3 // [252b] इदानीं वक्त्र'शुद्धयादि'रुच्यतेआदी हृच्चन्द्रमध्ये दशदिशि विविधान् भावयेत्तत्त्वरश्मीन् कृत्वा वक्त्रादिशुद्धि पुनरपि गगने स्फारितानां जिनानाम् / कृत्वा पूजां विचित्रां बहुविधकलुषं सञ्चितं देशयित्वा कर्तव्यं साधकेन त्रिशरणगमनं कायवाक्चित्तशुद्धया // 4 // आदावित्यादिना। इह योगिना पूर्वोक्तरक्षा कर्तव्या मारनिर्घा टनं च / ततः साधनापटलोक्तविधिना देवतारूपमात्मानं 'झटित्याकारेण कृत्वा स्वहृदये पंकारपरिणतमष्टदल रक्त पद्मम्, तदुपरि कणिकायाम् अँकारपरिणतं चन्द्रमण्डलम्, तस्य मध्ये तत्त्वमिति संवृत्या हूंकारजं वज्रं पञ्चशूकम् , तस्य रश्मीन् विविधान् पञ्चवर्णान् भावयेद्योगो / पूर्वं कृत्वा वक्त्राविशुद्धि पञ्चामृत गुलिकया मुखे प्रक्षिप्तया वक्त्रशुद्धिर्भवति / तथा पूर्वोक्तया दिव्यमुद्रया शिरसारभ्य यावत् पादान्तं तावदात्मानं संस्पर्शयेत् / एवं कायशुद्धिः / एवं कृत्वा वक्त्रादिशुद्धिं ततश्चन्द्रमण्डले वज्ररश्मिभिर्गगनतले तथागतान् प्रतिबोध्य तेषां स्फारितानां जिनानां पूजार्थं तान् रश्मीन् पुनराकृष्य स्वहृदये चन्द्र वज्रप्रविष्टान् विभाव्य ततश्चन्द्रमण्डले द्वादशपूजादेवीनां बीजाक्षराणि१५ ध्यायात् / कखगघङ खग्ङा च्छ्झ्न च्छ्झ्ना ड्ढ्ण ट्ड्ढ्णा पफ्ब्भ्म प्फ्भमा तद्दन त्द्ध्ना स्प्ष्श्क स्प्ष्श्का इत्येभिर्बीजाक्षनिष्पन्ना यथासंख्यं "नृत्या वाद्या गन्धा माला धूपा दीपा नैवेद्या अक्षता लास्या हास्या "गीता ___ कामा इत्यादिभिस्तथागतानां पूजां कृत्वाऽभिषेकपटलोक्तविधिना ततो वक्ष्यमाणक्रमेण बहुविधकलुषं सश्चितं देशयित्वा आदौ, ततः कर्तव्यं साधकेन त्रिशरणगमनं कायवाश्चित्त शुद्धचेति नियमः // 4 // इदानी पापदेशनावसाने पुण्यमनुमोदयेत्संबुद्धर्बोधिसत्त्वेर्बहुविधकुशलं यत्कृतं चार्यसंधैरनुमोदे तत्समस्तं व्यपगतकलुषो बोधिचर्यानुरूढः / T33820 १.ग. च. वासने / 2. च. विशुद्धया / 3. च. दिकम् / 4. च.मारादि / 5. छ. तनं / ६.च.झटिता। 7. ग. च. दलं। ८.ग.रक्तवर्ण / 9. ग. शुचिकं / 10. च गुडिकया। 11. ख. ग. छ. सादारभ्य। 12. च. 'सं नास्ति / 13 च. विशद्धिः / 14. ग. च. वजे / 15. भो. Gon Bu rNams ( पिण्डानि) इत्यधिकम् / 16. ग.च. गीता, भो. वाद्या नृत्या / 17. ग. च. नृत्या। 18. क. ख. ग. छ. विशुद्धये।