________________ 5 10 पटले, 5-3 श्लो.] स्थानरक्षापापदेशनादिमहोद्देशः एवमस्य कालचक्रस्य साधनमुत्पादक्षयविनाशार्थ योगिभिः कर्तव्यं वक्ष्यमाणक्रमेणेति रूप'कल्पनानियमः। चन्द्राङ्गमित्यादि। द्वादशलग्नात्मकम् अहोरात्रमेकाङ्गम् / तस्य षट् षड् लग्नात्मकं वामदक्षिणचरणम् / युग्मपादमिति / ततश्चतुर्लग्नात्मकं वामदक्षिणमध्यकण्ठं शिखिगलमिति त्रिकण्ठम् / एवं 'त्रित्रिलग्नात्मकं पूर्वदक्षिणपश्चिमोत्तर वक्त्रचतुष्कमुदधिरिति। चतुर्मुखं विश्ववणं वक्ष्यमाणमिति। एवं द्विद्विलग्नात्मकं वामे दक्षिणे च पूर्वापरं मध्यस्कन्ध षट्स्कन्धमिति। तथा प्रत्येकमासात्मका द्वादशभुजास्तैर्भुजैः सूर्यबाहुमि[252a]ति / "एवं प्रत्येकार्धलग्नम्। पक्षभेदेन चतुर्विंशतिकरं जिनकरकमलमिति। एवं षष्टिषष्टिप्रत्येकश्वासात्मकेन दिनभेदेन षष्ट्युत्तरत्रिशताङ्गुलीपर्व प्रत्येक करे पञ्चाङ्गुलीत्रिपर्वभेदेन पञ्चदशपर्वाणि चतुर्विंशतिकरेषु षष्ट्युत्तरशतत्रयं भवति। एवं शून्यषड्वह्निपर्वम्। पादाभ्यां माररुद्रमिति। स्कन्धक्लेशमृत्युदेवपुत्रमारम्, रागद्वेषमोहमानात्मक रुद्रम्, शशिरविहुतभुमण्डले त्रास्यमानम्, लीलयाक्रान्तं येन कालचक्रेण तमेकमभवभवसमं निर्वाणभवैकलोलीभूतं निरावरणतः। एवं साधयेत् कालचक्रमिति भगवतो नियमः // 2 // इदानीमस्य साधनाय स्थानान्युच्यन्तेउद्याने पर्वते वा जिनवरभवने शून्यदेवालये च सिद्धस्थाने श्मशाने सरसि सुनिलये गुप्तभूम्यां तथैव / यस्मिश्चित्तप्रतोषो भवति नरपते साधनं तत्र कुर्यात् कृत्वा पूर्वोक्तरक्षां खलु मृदुशयने चासने चोपविश्य // 3 // ... उद्यान इत्यादिना। इह लौकिककर्मसाधनानुरूपेण स्थानं भवति / उद्याने वश्याकृष्टयर्थं साधनं कुर्यान्मन्त्री / पर्वते १४वा स्तम्भनमोहनकीलनार्थम् / जिमवरभवने साधिष्ठाने महाचैत्येऽष्टमहासिद्धयर्थम् / शून्यदेवतालये चोच्चाटनविद्वेषणार्थम्, चकाराद् महोदधितटे वा। सिद्धस्थाने कर्ममुद्रासिद्धयर्थम् / श्मशाने मारणार्थम् / सरसि सुनिलये शान्तिपुष्टयर्थम् / गुप्तभूम्यामिति गुहावासे भूमिगृहे वा त्रैलोक्यराज्यसाधनार्थम् / एवं कर्मानुरूपेण यस्मिन् देशे चित्तप्रतोषो भवति नरपते साधनं तत्र कुर्यात् / तथा चाह धार्मिको यत्र भूपाल: प्रजा यत्रैव सुस्थिता। भूभृतोविग्रहो नास्ति तत्र योगं समारभेत् // इति / 15 20. 1. च. विकल्पना / 2. च. मिति / 3. छ. चतुश्चतु / 4. ग. त्रिलग्ना / 5. ग. च. त्तरं। 6. छ. रक्त / 7. च. मध्ये षट् / 8. ख. ग. स्कन्धं 9. भो. 'द्वादश' नास्ति / 10. च. रिति / 11. भो. 'एवं' नास्ति / 12. च. 'करे नास्ति, छ. कर। 13. च. सदाह्नि / 14. च. 'वा' नास्ति /