________________ 150 विमलप्रभायां [साधना इह वृत्ते पदत्रयेण सुचन्द्राध्येषणं 'साधनपटलदेशनाय / ततश्चतुर्थप[1]दमारभ्य यावत् पटलपरिसमाप्तिस्तावद्भगवतः प्रतिवचनमिति / इदानीं श्रुत्वा सौचन्द्रवाक्यं गदति जिनपतिः शाक्यमनिर्भगवान् कालचक्रसमाधिसमापन्न: साधनं वज्रिणः श्रीकालचक्रभगवतः / चकाराच्चाक्षोभ्यादितथागतानां वज्रधात्वीश्वर्यादिदेवीनां वज्रपाण्यादिबोधिस[251b]त्त्वानां शब्दवत्रादिविषयदेवीनामुष्णीषादि महा क्रोधराजानाम् अतिनीलादिक्रोधदेवीनां चर्चिकादिमातृणां विष्ण्वादिदेवानां जयादिनागराजानां श्वानास्यादिप्रचण्डानां प्रत्येक साधनमन्येषामपि गदति जिनपतिलौकिकसिद्धिसाधनायाकनिष्ठभुवनपर्यन्तं रूप"भावनयेति भगवतो नियमः // 1 // इदानीं कालविशुद्धया भगवतो रूपकल्पनोद्देश उच्यतेचन्द्राग युग्मपादं शिखिगलमुदधिं श्रीमुखं विश्ववणं षट्स्कन्धं सूर्यबाहुं जिनकरकमलं शून्यषड्वह्निपर्वम् / पादाभ्यां माररुद्रं शशिरविहुतभुङ मण्डले त्रास्यमानं लोलाकान्तं तमेकं त्वभवभवसमं साधयेत् कालचक्रम् // 2 // 'चन्द्राङ्गमित्यादिना / इहारिबुद्धे भगवानाह दिन सूर्यो रजो वज्रं भावभेदैनिशा शशी। . शुक्रं पद्मं तयोरैक्यं कालचक्रं महासुखम् // इति / 20 तथाऽपरतन्त्रान्तरेऽपि भगवता सामान्येनोक्तम् - दिनस्तु भगवान् वज्री नक्तं प्रज्ञा प्रकीर्तिता। . आदित्यो हि यथा रुद्रस्तथा चन्द्र उमा मता(तः)॥ एवं सूर्यचन्द्रदिवानिशाभेदेनाहोरात्रं काल इत्युच्यते, तस्य चक्रं षट्शताधिकैकविंशतिसहस्रश्वासात्मकं द्वादशाङ्गं प्रतीत्यलक्षणं राशिचक्र लौकिकसंवत्योत्पादक्षयहेतुभूतं सर्वसत्त्वानाम् / तथा चाह काल: सृजति भूतानि कालः संहरते सदा। कालो हि भगवान् वज्री अहोरात्रस्वरूपवान् // इति / 1. ग. नास्ति / 2. क. ख. छ. 'पटल' नास्ति / 3. ग. महादेवीनाम् / 4. छ. क्रोढ / 5. भो. भावना / 6. क. चक्राङ्ग। 7. छ. 'महा' नास्ति / 8. ग. च. परत्र / ९.ख. महा।