________________ 156 विमलप्रभायां [साधना.. बाह्ये वाङ मण्डले वै वसुकमलमिदं चन्द्रसूर्यविहीनं बाह्ये दिक्कोणभागे दिनकरकमलं द्वारमध्ये रथाश्च / अर्कद्वारेषु राजन् मणिकनकमयस्तोरणैश्च श्मशानेद्वर्यष्टस्तम्भैश्च गर्ने कुलिशमयसुसम्भोगचक्रं जिनस्य // 9 // 10 तद् बाह्ये वाङ्मण्डले समुद्रवलयान्ते 'वसुकमलमिदं कमलाष्टकं चन्द्रसूर्यविहीनम्, तस्यैव बाह्ये कायमण्डले वायुवलयान्ते दिनकरकमलमिति द्वादशकमलं चन्द्रसूर्यविहीनम् / एवं चतुरे रथाश्च / एवं कायमण्डलं चतुर्लक्षयोजनायामम्, वाङ्मण्डलं तदर्धम्, चित्तमण्डलं तस्याप्यर्धम्, महासुखचक्रं तस्याप्यधं' भगवतः पद्मम् / पद्मत्रिभागिका कर्णिका चन्द्रादित्यराहुमण्डलानि / तथैवमध्यात्मनि गुह्यकमलाद् अध ऊवं हृदयाद् गुह्यकमलं शिरो या[255a]वत् / अथवा हृदयाद् बाहूपबाहुनखान्तं यावद् मातृशरीरे विकल्पभावादिति नियमः। एवं प्रत्येकमण्डले चतुश्चतु राणि। एवं द्वादश द्वाराणि / अर्कद्वारेषु राजन्निति संबोधनम् / मणिकनकमयस्तोरणश्च कायमण्डलबाह्ये अष्टश्मशानश्च / गर्भे द्वचष्टस्तम्भैः षोडशकलाभेदेन षोडशस्तम्भैः / कुलिशमयं बोधिचित्तमयं सुसम्भोगचक्रं जिनस्येति / अस्य कायधातुभिविशुद्धिर्ज्ञानपटले वक्तव्या। अत्र मूलतन्त्रानुसारेण धर्मस्कन्धविशुद्धिरुच्यते। अत्र भगवानाह 15 . बुद्धधर्ममहासंधैश्चित्तवाक्कायमण्डलम् / चतुर्ब्रह्मविहारैश्च वज्रसूत्रचतुष्टयम् // चतुभिः स्मृत्युपस्थानैश्चतुरस्रं समन्ततः। द्वादशाङ्गनिरोधेन द्वाराणि द्वादशानि च // . भूमिभिदिशैस्तद्वत् तोरणानि शुभानि च। आर्याष्टाङ्गिकमार्गश्च श्मशानान्यष्टदिक्षु च // शून्यता षोडश स्तम्भाः कूटागारं तु धातुभिः। नि'हाष्टविमोक्षश्च रूपिभिश्चाष्टभिर्गुणैः / / कपोला "पक्षकाश्चैव चित्तवाक्कायभेदतः। शीलादिपञ्चभिः स्कन्धेः पञ्चवर्ण विशोधितम् / / त्रिप्राकारैत्रियानैश्च पञ्चश्रद्धेन्द्रियादिभिः। श्रद्धादिभिर्बलैः पञ्च चित्तवाक्कायमण्डले / / 3. च. मण्डलम् / 1. च. भो. वसुदल / 2. ग. तस्यार्ध / 5. क. ख. पक्षक / 6. च. छ. प्राकारा / 4. च. रं च /