________________ 5 पटले, 193-197 श्लो. ] मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः मित्रं मे त्वं सौम्यदृष्टया कथयतीति संभाषणदृष्टिनियमः। इदानीं भयदृष्टय उच्यन्ते-इह यदा भृकुटी' कृत्वा क्रोधदृष्टिं दर्शयति तदा तया क्रोषदृष्टया भृकुटया योगिनो भयं प्रकटयति, अज्ञत्वादिति / तथा केशदृष्टया राऽहमिति कथयति सुभगस्य योगिनः स्वस्वभावमेभिरिङ्गितैरिति / तथा ऊर्णादृष्टया उत्तमाहमिति प्रकटयति / तथा गुणं प्रकटयति घ्राणदृष्टया। ओष्ठदृष्टया सौभाग्यं स्वकीयं प्रकटयति। तथा स्वकुचयुगालोकनेऽहं सुमुद्रेति वदति // 195 // हृदृष्टया भावितात्मा वदति भुजयुगालोकनेऽहं प्रचण्डा शक्ताहं स्कन्धदृष्टया सनखकरतलालोकने राक्षसी च / पृष्ठालो[247b]के भुजङ्गी त्वहमिति समयी नाभिदृष्टया नरेन्द्र शुद्धाहं गुह्यदृष्टयाऽप्यहमपि सुरते दुर्जया चोरुदृष्टया // 196 // हृदृष्टया भावितात्मेति वदति / तथा भुजयुगालोकनेऽहं प्रचण्डेति वदति / तथा स्कन्धदृष्टया शक्ताह मिति वदति / तथा सनखकरतलालोकने राक्षसी चाहमिति वदति। तथा पृष्ठालोके नागिन्यहमिति वदति / तथा नाभिदष्टचाऽहं समयिनीति वदति / नरेन्द्रेत्यामन्त्रणम् / तथा गुह्यदृष्टया शुद्धाहमिति वदति / तथा ऊरुदृष्टया सुरते दुर्जयाहमिति कथयति // 196 // 10 सिद्धाहं जानुदृष्टया कथयति नियतं चद्धिदा पाददृष्टया पादाङ्गुष्ठावलोके त्वहमपि भुवने वज्रकायैकवीरा / सर्वाङ्गुल्यग्रदृष्टया त्रिभुवननिलये सर्वगा विश्वमाता .. दूतीनामेव दृष्टिः क्षितितलनिलये योगिना वेदितव्या // 197 // ' तथा जानुदृष्टया सिद्धाऽहमिति कथयति / तथा पाददृष्टयाऽहमृद्धिदेति कथयति / तथा पादाङ्गुष्ठावलोके कृते सति तया दृष्ट्याप्यहं भुवने पत्रकायैकवीरेति कथयति / तथा सर्वाङगुल्यादृष्टया पादयोस्त्रिभुवननिलये सर्वगा विश्वमाताऽहमिति कथयति। एवं योग्यपि सामर्थ्ययुक्तमात्मगुणान् दूतीनां प्रकटयति। एवमुक्तक्रमण दूतीनामेव दृष्टिः पुनरपि बहुविधा वेदितव्या स्वभावैरिति दृष्टिसंकेत"नियमः। 25 तथा छोमकाः। यस्य भावस्य यन्नाम तस्याद्याक्षरेण तद्ग्रहणं वेदितव्यम्, प्रस्ताव- वशादिति / यथा सैन्धवमानयेत्युक्ते स्नाने वस्त्रम्, भोजने लवणम्, गमनेऽश्वः, युद्धे 1. क. च. भृकुटिं। 2. क. ख. ग. च. समुद्रेति / 3. छ. 'पाददृष्टया""कथयति, तथा' नास्ति / 4. ग. सर्वपा। 5. ग. च. छ. संकेतक /