________________ 10 विमलप्रभायां [अभिषेकखड्गमिति न्यायेन 'सर्वः प्रथमाक्षरसंकेतवस्तुधर्मो वेदितव्यः / गणचक्रादिके ऽसमयिसत्त्वमध्ये सन्ध्याभाषान्तरेण छोमकेन वा वक्तव्यं योगिना योगिन्या वा इति सर्वत्र नियमः // 197 // [248a] इदानीं शिष्याणां दानार्थं स्वशरीरादिविभागनियम उच्यतेषड्भागं देहमध्ये करचरणतनोनिमप्युत्तमाङ्गं वाचा कर्मेन्द्रियाणां सगुणमपि मनस्त्विन्द्रियाणां च मध्ये / धात्वंशं धातुमध्ये द्विपदपशुगणान् तत्त्वभागेन चान्यद् आचार्याय प्रदाय व्रजति सुखपदं दिव्यमुद्रानुविद्धः / / 198 // षड्भागमित्यादिना / इह यदा वज्राचार्येणाभिषिक्तो गृहस्थ"श्चेल्लको भिक्षुको वा, तेनेयं प्रतिज्ञा कर्तव्या मया सर्वकालं 'षडंशं सर्ववस्तूनां दानं दातव्यमिति / तत्र प्रथमं तावत् षड्भागं देहमध्ये करचरणतनोरिति हस्तद्वयस्य चरणद्वयस्य तनोरेषु पञ्चसु मध्ये षष्ठमुत्तमाङ्गदानं नमस्कारार्थम् आचार्याय प्रदेयं बुद्धबोधिसत्त्वाय गुरवे / तं दत्त्वा व्रजति सुखपदं दिव्यमुद्रानुविद्धो दानदातेति / तथा वाचा कर्मेन्द्रियाणां मध्ये देया पाणिपादपायुभगादीन्द्रियाणां षष्ठं वागिन्द्रियं सत्यवचनार्थ वाचा देयेति भगवतो नियमः। तथा चक्षुःश्रोत्रघ्राणजिह्वाकायेन्द्रियाणां मध्ये षष्ठं मनः सगुणं मायाप्रपञ्चरहितं सत्त्वार्थ देयमिति दाननियमः / तथा १°धात्वंशमिति। धातवः स्वर्णरत्नधान्याद्यचेतनानि द्रव्याणि, तेषां चिरागन्तुकधातूनां ११षडंशं देयं योगिन्यादिपूजार्थमिति / तथा सचेतनानि द्विपदचतुष्पदानि १२षडंशेन देयानि, १३पञ्चांशान्यात्मकुटुम्बभोगाय स्थापयितव्यानि / तथा तत्त्वभागेन चान्यद् रूपभार्यादिकं मासमध्ये पञ्चवारान् कामदानेन देयमिति तथागतनियमः। अन्यथा मन्त्रनये काम दानेन विनाऽनन्तकल्पैर्महामुद्रासिद्धिर्न भवति / . कर्ममुद्राज्ञानमुद्रासिद्धिरपि न भवति, रागाभिभूतस्य कुल"ग्रहादिति / "एवं षड्विभागदाननियमः // 198 // इदानीं करुणाभिषेक उच्यतेये सत्त्वा लोकधातौ त्रिविधभवगता ज्ञानवज्राङकुशेन आकृष्ट्वा तान् समन्तात् परमकरुणया मण्डले चाभिषिच्य / 15 1. ग. सर्वप्रथमा० / 2. च. माक्षरः। 3. ग. दिके सम / 4. क. ख. 'योगिना' नास्ति / 5. च. गृहस्थचेल्ल०। 6. च. षडङ्ग। 7. भो. Nes Pa ( नियमः) इत्यधिकम् / 8. ग. च. ०त्तमाङ्गं / 9. ग. च. सत्त्वयुक्ताय / 10. च. धात्वङ्ग / 11. च. षडङ्गं / 12. च. षडङ्गेन / 13. च. पञ्चाङ्गान्यात्म / 14. ग. दानाद् / 15. क, ख. छ. ग्राहादि० / 16. ग. 'एवं' नास्ति / 17. च. भो. 'वि' नास्ति /