________________ 142 विमलप्रभायां [अभिषेक- . 10 दीपाकारेण दीपा खलु निहततमा पात्रमुद्राऽमृता स्याद् इत्येवं सर्वमुद्राः पुनरपि च ततः पञ्चभेविभिन्नाः / अन्या मुद्रास्त्वनन्ताः सकलतनुगता योगिना वेदितव्या यद्यद् वस्तुस्वभावो भवति भुवितले तत्स्वभावाश्च मुद्राः // 193 // दोपाकारेण दीपा खलु निहततमा पात्रमुद्राऽमृता स्यात्, इत्येवं सर्वमुद्राः . पुनरपि च ततः पञ्चभेदैविभिन्नाः, अन्या मुद्रास्त्वनन्ताः सकलतनुगता योगिना वेदितव्याः, यद्यद् वस्तुस्वभावो भवति भुवितले तत्स्वभावास्तु मुद्रा इत्यतः यावन्तो दृष्टिविक्षेपास्तावन्मुद्राः प्रकीर्तिताः। मुद्रायाः प्रतिमुद्रायां कः समर्थोऽवधारितुम् // अभिज्ञा योगिनां यावन्नोत्पद्यन्ते समाधिना। तावल्लौकिकवादार्थं प्रतिमुद्रां न दर्शयेत् / / इति मुद्रासंकेतनियमः / / 193 // इदानीं दृष्टि संकेत उच्यतेतिर्यग्दृष्ट्या च दूती कथयति सुभगस्यागतस्त्वं कुतश्च प्रत्युक्तं योगिनः स्यात् शिरसि गतकरस्येक्षणे तद्दिशो वै / क्षेम[247]स्तेऽप्यूर्ध्वदृष्टया क्षितितलगतया तिष्ठ विश्रामय त्वं गच्छ त्वं वक्रदृष्टया कथयति सुरतं रागदृष्टया च दूती // 194 // तिर्यगित्यादिना। इह यदा योगिनो दर्शने दूतोति योगिनी तिर्यग्दृष्ट्या दर्शयेत् तया दृष्ट्या कथयति सुभगस्येति योगिन् आगतोऽसि कुतः स्थानात् त्वमिति पृच्छति। ततः प्रत्युक्तं योगिनः स्यात् शिरसि वामकरगतस्येक्षणात् तद्दिशो वै स्थानादागमनकथनम् / क्षेमस्तेऽप्यूध्वंदृष्ट्या कथयति क्षितितलगतया तिष्ठ विधामय त्वमिति कथयति / गच्छ त्वं वक्रदृष्टयेति कथयति / रागदृष्ट्या सुरतं कुर्विति कथयति दूती // 194 // मित्रं मे सौम्यदृष्टया प्रकटयति भयं क्रोधदृष्टया भृकुटया क्रूराऽहं केशदृष्टया कथयति सुभगस्येङ्गितः स्वस्वभावम् / ऊर्णादृष्टयोत्तमाहं प्रकटयति गुणं योगिनी घ्राणदृष्टया सौभाग्यं चौष्ठदृष्टया वदति कुचयुगालोकनेऽहं सुमुद्रा // 195 // 1. ग. च. छ. संकेतक / 2. ग. च.वै इति /