________________ 5 10 पटले, 184-189 श्लो. ] मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः सर्वामुल्यग्रसारात् प्रवदति सुभगा स्वागतं योगिनश्च वामाङ्गस्पर्शनेन प्रकटयति सदा बन्धुरेको मम त्वम् / योनौ स्पर्शे च भर्ताऽप्यधरकुचयुगालेखने वा नखैश्च अङ्गुल्यन्योन्यबन्धात् कथयति समयं मध्यमाङ्गुष्ठसारात् // 187 // [245a] तथाऽभिवादनयोगेन सर्वाङ्गुल्यग्रसारात् प्रवदति सुभगा स्वागतं योगिनश्च / तथा वामाङ्गस्पर्शनेन प्रकटयति सदा बन्धुरेको मम त्वम् / तथा योनौ स्पर्श च भर्ता / तथाऽधरकुचयुगालेखने वा भर्ता कथित इति। नखैश्चेति। अगुल्यन्योन्यबन्धादिति कराभ्यां संपुटं कृत्वा कनिष्ठाद्या 'अङ्गुल्यन्योन्यबद्धा, अतो बन्धात् तर्जन्याऽनामिकाबन्धादङ्गुष्ठमध्यमाप्रसारात् समयमेलापकं कथयति संभाषण- मुद्रा // 187 // इदानीं निर्भर्त्सनमुद्रा उच्यन्तेओष्ठभूनेत्रवके वदति शिरसि कण्डूयमानेऽतिमूर्यो दंष्ट्रामध्ये कनिष्ठा प्रकटयति भयं तर्जनी हुन्मुखे च / अगुष्ठे मुष्टिबन्धाद् भुवि करचरणास्फालने भक्षयामि जिह्वास्पर्शे च भुक्तं ह्युदरदशनयोस्ताडिते नैव भुक्तम् // 188 // ओष्ठ इत्यादिना / इह यदा यत्र कुत्रचिद् दूतिकां दृष्ट्वा सती साधकं दृष्ट्वा ओष्ठादिकं वक्रं दर्शयति / तत्र ओष्ठे वक्रे भ्रवि व नेत्रे वक्रे तथा शिरसि कण्डूयमाने वदत्यति महामूर्खस्त्वं यदा मुद्रा संकेतकं न जानाती(सी)ति / तथा यदि दंष्ट्रामध्ये कनिष्ठारोपिता तया, तदा सा कनिष्ठा भयं प्रकटयति / अथवा तर्जनी हृदये मुखे वा रोपिता कथयति भयमिति। तथाङ्गुष्ठे मुष्टिबन्धं कृत्वा तस्मान्मुष्टिबन्धात तेनैव भुवि स्फालनात्" करचरणाभ्यां स्फालने सति भक्षयामोति वदति, मुद्रासंकेतानभिज्ञत्वादिति निर्भर्त्सनमुद्राः। तथा भोजनार्थ जिह्वास्पर्शे च भुक्तमना• मिकयेति / तथा वामकरेणोदरदशनयोस्ताडिते न भुक्तमिति // 188 // पाणी पृष्ठे च गच्छ प्रवदति नियतं संमुखे तिष्ठ तिष्ठ जानूरूमदने वै कथयति सुभगाऽद्यैव विश्रामय त्वम् / 15 १.क. ख. ग. च. छ. स्तिस्रोऽन्योन्य। 2. ग. 'वक्रे' नास्ति / 3. च. 'महा' नास्ति / 4. ग. संकेतनं, च. संकेतं / 5. क. ख. . नात् / 6. ग. च. चरणाभ्यां वा।