________________ 138 विमलप्रभायां अभिषेक- . इह पञ्चाङ्गुल्यर्धवक्रा सिंहनखाकारेण जातिमुद्रा नखीनामेककरतले उभये वा। तथा तर्जन्यो द्वेऽर्धवक्रेऽर्धचन्द्राकारेणोभयकरमुष्टयुपरि शिरसि दर्शिता शृङ्गिणां मुष्टिबन्धादिति शृङ्गिणीमुद्रा // 184 // बद्धेऽन्योन्यं कनिष्ठे विषमकरतले पक्षयोगोऽण्ड जानां पञ्चाङ्गुल्यग्रवका भवति हि फणिनां जातिमुद्रा विशिष्टा / तर्जन्यन्ताः प्रसाराः प्रतिदिवसबलौ चापरेऽधश्च श्लिष्टे ज्वालायां श्लिष्टज्येष्ठी वरकरतलयोस्तर्जनी सारिताऽन्या // 185 // / [244b] तथा बद्धेऽन्योन्यं कनिष्ठे विषमकरतले पृष्ठयोगेन तर्जनीमध्य'माद्या नामिकाऽङ्गुष्ठयोर्मुखयोग इत्येवं गरुडमुद्रा। तथा पञ्चाऽङ्गुल्योऽग्नपर्ववका दर्शिता फणिनां जातिमुद्रा भवति / तथा ज्वालामुद्रायां मध्यमाऽनामाकनिष्ठा प्रसारिता उभयकरे तर्जन्यौ द्वेऽन्योन्यं ग्रन्थिते पशिरस उपर्यधो मुखेनाङ्गष्ठौ श्लिष्टाविति वरकरतलयोस्तेनैव प्रकारेण, किन्तु तर्जनी "सारिताऽन्या द्वितीया ज्वालामुद्रेति जातिमुद्रा तिर्यङ्मुखीनां दर्शनीयेति नियमः // 185 // - इदानीं वीरवीरेश्वरीणां परस्परसंभाषणमुद्रा उच्यन्ते तर्जन्या दर्शनं वै कथितमपि भवेत् स्वागतं योगिनश्च द्वाभ्यां सुस्वागतं च प्रवदति सुभगा क्षेममगुष्ठबन्धात् / अगुल्याश्छोटिकायाः कथयति नियतं श्रेष्ठमन्त्री त्वमत्र अङ्गुष्ठानामिकाभ्यां ससमयसुरया तपंणं ते करोमि // 186 // 10 T411 तर्जन्येत्यादिना। इह यत्र कुत्रचिद् ‘दर्शनमात्रेण मुष्टिं बद्ध्वा ऊर्ध्व मुखां तर्जनीमङ्गुष्ठाभिमुखां श्लिष्टां दर्शयेत् / तस्या दर्शने सति स्वागतं कथितं भवेद, योगिन्या योगिनो योगिना योगिन्या वा इति / द्वाभ्यां तर्जनीमध्यमाभ्यां पृष्ठतः संयुक्ताभ्यां सुस्वागतं कथितं भवति / तथा प्रवदति सुभगा क्षेमं वामाङ्गुष्ठमुष्टिबन्धादिति। तथाऽङ्गुल्याश्छोटिकाया अगुष्ठतर्जन्याः कथयति नियतं श्रेष्ठमन्त्री त्वमत्रेति / अङ्गुष्ठानामिकाभ्यां छोटिकां कृत्वा कथयति ससमयसुरया तर्पणं ते करोमि // 186 // 25 १.ग. मध्यमाद्य / 2. ग. च. नामिता / 3. ग. एषां / 4. क.ख. 'फणिनां नास्ति / 5. ग. भो. शिरसि / 6. भो. मुखेन दर्शिताङ्ग / 7. ग. च. भो. प्रसारिता / 8. भो. Phrad Pa Tsam Gyi ( स्पर्शमात्रेण ) / 9. क. ख. मुखी / १०.ग. च. संदर्शयेत् /