________________ 137 5 10 पटले, 181:184 श्लो. ] मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः पाणी पृष्ठेऽङ्गुलीनां क्रमपरिरचितं बन्धनं कण्ठिकायां त्र्यमुल्यन्योन्ययोगोभयकरकुटिलाद्यन्तयोर्मेखलायाम् // 182 // तथा हस्ताभ्यां शङ्खमुद्रा श्लिष्टा मुकुटे भवति इत्यूर्ध्वतर्जनीद्वन्द्वयोगः। उभयहस्तयोविषमकरतलदेशः पञ्चाङ्गुलीनां पृष्ठतः कुण्डलेष्विति कुण्डलमुद्रा। तथा पाणी पृष्ठेऽङ्गुलीनां क्रमपरिरचितं परस्परं बन्धनं कण्ठिकायामेवं कण्ठिकामुद्रा। तथा मेखलायां व्यङ्गल्योऽनामामध्यमातर्जन्यो वामसव्ययोरङ्गुल्यने मेलापकः कनिष्ठाङ्गुष्ठाया मुष्टिबन्ध इति 'मेखलामुद्रा // 182 // अङ्गुष्ठी मध्यमे द्वे वलयमिव कृतौ नूपुरे मुष्टिबन्धात् तद्वत् केयूरयुग्मे भवति * च कटके तर्जनीद्वन्द्वयोगः / अगुष्ठो डाकिनीनां भवति वरकुलं तर्जनी गुह्यकानां गन्धर्वाणां फणीनां क्रमपरिरचिता मध्यमाऽनामिका वा // 183 // ___ तथोभयहस्तयोरङ्गुष्ठे द्वे मध्यमे द्वे श्लिष्टे ताभ्यां वलयमिव कृतौ नूपुरे शेषागुलोभिसृष्टिबन्ध * इति नूपुरमुद्रा / तथा केयूरे कटके वाऽङ्गुष्ठयोगस्तर्जनीयोगो वलय इव भवतीति भगवतश्चिह्नमुद्रा। [244a] __इदानी कुलमुद्रोच्यते-अङ्गष्ठेत्यादिना। इह सर्वासां डाकिनीनां साधारण- मङ्गुष्ठदर्शनं वज्रमुष्टयुपरि कुलमुद्रा भवति / तथा वज्रमुष्ट्युपरि तर्जनी प्रसारिता गुह्यकानां यक्षाणां कुलमुद्रा। तथा गन्धर्वाणां मुष्टिबन्धाद् मध्यमा प्रसार्य दर्शिता कुलं भवति / एवं फणीनामनामिका कुलं भवति // 183 // भूतानां श्रीकनिष्ठा प्रवरकरतलं राक्षसानां कुलं स्यात् सिद्धानां मुष्टिबन्धो भवति वरकुलं पर्वसन्धिः सुराणाम् / पञ्चाङ्गुल्यर्धवक्रा ह्यभयकरतलं जातिमुद्रा नखीनां तर्जन्यौ द्वेऽधंवक्रे खलु शिरसि गते शृङ्गिणां मुष्टिबन्धात् // 184 / / भूतानां कनिष्ठा दर्शिता कुलं भवति / तथोवं चतुरङ्गुलीभिर्मुष्टिबन्धः करतलं "प्रकटितं दर्शितं राक्षसानां कुलं स्यात् / सिद्धानां मुष्टिबन्धो दर्शितः कुलं भवति / तथा सुराणां बाहू 'पबाहुपर्वसन्धिः कुलम् / तथा ब्रह्मराक्षसस्य हस्तपृष्ठतलम् / तथोपबाहुकर तलसन्धिर्शिता व्यन्तराणां कुलं स्यात् / एवमष्टविधा मुद्रा वामहस्तेन दर्शनीयाऽष्टकुलजानामिति / इदानीं 'नखीनां जाति मुद्रोच्यते-पञ्चेत्यादिना। 1. ख. भो. मेखलायाः / 2. ग. भो. कृते / 3. क. 'इति' नास्ति / 4. क. ख. ग. च. 'मध्यमा' नास्ति / 5. च. प्रकटं / 6. ग. 'उपबाह' नास्ति, च. 'पर्व' नास्ति / 7. क.ख. ग. छ. 'तल' नास्ति / 8. भो Ro Lans ( वेतालानां) / ९.क. ख. छ. तिर्यमुखीनां / 10. ग. मुद्रा उच्यन्ते / 15 25