________________ विमलप्रभायां [अभिषेक-. अङगल्यच्छिद्रपाणिः कमलदलमिव श्रीकपाले कृतोवं पाणावुत्तानमुष्टिर्भवति धनुषि वै वामबाहुप्रसारः / तर्जन्यारूढवका भवति च नियता मध्यमा वज्रपाशे रत्ने द्वन्द्वोऽगुलीनां भवति नृप विकाशश्च पद्मे च तासाम् // 180 // [243a] तर्जन्यङ्गुष्ठयोगो भवति जलचरेऽङ्गुष्ठकाधश्च मुष्टिरादर्श संमुखं स्यात् सुसमकरतलं साङ्गुलीकं ह्यछिद्रम् / तर्जन्यायुध्वंवका क्रमपरिरचिताङ्गुष्ठके शृङ्खलाया- ... मङ्गुष्ठाद्याश्चतस्रः शिरसि सममुखा कुञ्चिताधः कनिष्ठा // 181 // तथा कपालेऽङगुल्यच्छिद्रपाणिः कमलदलवत् कपालमुद्रा उत्तानकेति / तथा प्रसारितपाणावुत्ताना मुष्टिधनुषि, एवं धनुर्मुद्रा / तथा वाममुष्ट्यूधै तर्जनीमारूढा वक्रा मध्यमा द्वयोर्मध्ये छिद्रम्, एवं वज्रपाशः। एकहस्तमुद्रेयम् / अपरा हस्तद्वयेन वरुणादेर्यत्र दक्षिणे यौगपद्येन वज्राशो न दृश्यते / एवं पाशमुद्रेति / तथा द्वन्द्वो मेलापकः / पञ्चाङ्गलोनां मध्ये मध्यमां कृत्वा ऊर्च पाणाविति रत्नमुद्रा / वामहस्ते पद्ममुद्राया'मङ्गष्ठे श्लिष्टे तर्जन्यादिषु, एवमङ्गुलीनां विकाशश्चतुर्दलकमलवद् उभयहस्ताभ्याम् अष्टदलं भवति। एवं पद्ममुद्रेति। तथा डमरुके मध्यमा"नामिकाभ्यां मुष्टिबन्धः। अङ्कशाकारेण तर्जनी अङ्गुष्ठनखोपरि कनिष्ठा र्धवक्रेति / तथा मुद्गरे मुष्टिबन्ध इति / चक्रे सर्वाङ्गलीनामाराकारेण प्रशा(सा)र एकहस्ते उभयहस्तकरतलसंपुट इति। तथा तर्जन्यमुष्ठयोर्योगोऽङ्गुष्ठाधः कनिष्ठादिमुष्टिरषष्ठतर्जनीप्रसारिता शङ्खमुद्रेति। आदर्शाभिमुखं सुसमकरतलं वामेति दर्पणमुद्रायाम्, अङ्गुलोकमछिद्रं तथा तर्जन्यादिकं कृत्वा कनिष्ठापर्यन्तमगुष्ठोध्वं तर्जनी वक्रा 'कुण्डलाकारा, तदुपरि मध्यमा, मध्यमोपरि अनामा, अनामोपरि कनिष्ठा / एवं शृङ्खलामुद्रेति / तथा ब्रह्मशिरसि अ[243b]गुष्ठाद्याश्चतस्रः सममुखा द्वन्द्वयोगेनाघोमुखा कनिष्ठा कुञ्चितेति शिरोमुद्रा // 180-181 // 20 हस्ताभ्यां शङ्खमुद्रा भवति हि मुकुटे तर्जनीद्वन्द्वयोगः पञ्चाङ गुल्यैकयोगोऽपि च करतलयोः पृष्ठतः कुण्डलंच / 1. ग. . द्रामङ्गष्ठे / 2. ग. च. ०ठकनिष्ठे। 3. च. न्यग्रादिषु, ग. न्याद्या दिक्षु / 4. च. भो. दलकमलं / 5. ग. च. 0 नामाभ्यां / 6. ग. 'अर्ध' नास्ति / 7. सा. पा. चक्रेति / 8. ग. मण्डला /