________________ T410 पटले, 175-179 श्लो. ] मुद्रादृष्टिमण्डलविसर्जनवीरभोज्यविधिमहोद्देशः 135 अङ्गष्टमेव' मुष्ट्यर्धं तीक्ष्णखड्गे भवति / शरसमे तर्जनीमध्यमे च श्लिष्टे इत्यर्चे खङ्गमुद्रा। तथाङ्गुष्ठमुष्टयध तर्जन्याद्या इति तर्जनीमध्यमाऽ'नामिका त्रिशूलाकारा विरला पुनरर्धमुष्टया त्रिशूलमुद्रा। विषयार्थे सप्तमीति सर्वत्र / तथा श्रीकां मुष्टिबन्धो भवति, कनिष्ठार्धचन्द्राकारा भयकरा दुर्दान्तानामिति कर्तिकामुद्रा / / 177 / / कर्णोध्वं मुष्टिबन्धो भवति वरशरेऽङ्गुष्ठकं मध्यमोघे तर्जन्यत्यन्त वक्रा भवति नृप तथैवाङकुशे मुष्टिबन्ध / मूले तर्जन्यनामा भवति शरसमा मध्यमोवं च कुन्ते तिर्यमुष्टिश्च दण्डे सुसमकरतलेऽङ्गुष्ठसारः कुठारे / / 178 / / कर्णोध्वं मुष्टिबन्धो वरशरमुद्रायाम्, अङ्गुष्ठं मध्यमोघे तर्जन्याध इति शरमुद्रा। अङ्कशे वज्रमुष्टिबन्धस्तर्जनो"मुष्टयूर्ध्वमङ्कशाकारा 'वक्राऽत्यन्तमित्य[242b]- ङ्कशमुद्रा। तथा कनिष्ठाङ्गुष्ठाभ्यां मुष्टिस्तर्जनी, अनामेऽधः शरसमाश्लिष्टे, तयोरुपरि मध्यमा कुन्ते, एवं कुन्तमुद्रा। तथा तिर्यमुष्टिश्च बाहुप्रसारा" दण्डे, ‘एवं दण्डमुद्रा भवति। तथा सुसमकरतले ऊर्ध्वमङ्गुष्ठप्रसारस्तिर्यविभागेन तर्जन्याद्याश्चतस्रः श्लिष्टाः, एवं कुठारमुद्रा भवति // 178 // ऊर्ध्वं मुष्टिद्वयं स्यादसुरपतिगजस्याजिने तर्जनी च दंष्ट्रायां मुष्टिबन्धो ह्यभयकरतले चार्धचन्द्रा कनिष्ठा / वामे बाहप्रसारो भवति करतलं चोर्ध्वगं खेटके च खट्वाङ्गेऽच्छिद्रमुष्टिर्भवति च नियता स्कन्धसारा कनिष्ठा // 179 / / 10 तथा ऊर्वे मुष्टिद्वयं स्यात असुरपतिगजो विनायकः, तस्य चर्ममुद्रायामूर्खेतर्जनी मुष्टिद्वयेऽपीति गजचर्ममुद्रा। तथा दंष्ट्रायां मुष्टिबन्धो भयहघुकरत लेऽर्धचन्द्राकारे 20 कनिष्ठे सव्यावसव्यमुखे दर्शयेत् / एवं दंष्ट्रामुद्रेति दक्षिणहस्तचिह्नमुद्रा गजचर्मदंष्ट्रामुद्रानियमः। इदानीं वामहस्तचिह्नमुद्रोच्यते- इह वामे बाहुप्रसारो भवति करतलमूर्ध्वगमभयकरतलवत् खेटके फलके, एवं फलकमुद्रा। तथा खट्वाङ्गेऽछिद्रमुष्टिस्तर्जनीमध्यमाऽनामाङ्गुष्ठाः श्लिष्टाः स्कन्धस्थाने कनिष्ठोवं प्रसारिता, एवं खट्वाङ्ग- 25 मुद्रेति // 179 // 1. ग. च. भो. मेवं / 2. ग. च. ऽनामा। 3. ग. च. 'तथा' अधिकं / 4. ग. न्यामधः / 5. ग. मुष्टयोर्ध्व / 6. ख. वज्रा०, ग च. चक्रात्यन्त / 7. च. प्रसारं / 8. क. 'एवं दण्ड' नास्ति /