________________ 134 10 विमलप्रभायां [अभिषेकइह हस्ताभ्यां वज्रबन्धैरिति / इह सव्यहस्तो वामहस्तमणिबन्धोपरि 'गत्वाऽधः प्रविश्य बाहूपबाहुसन्ध्युपरि वज्रमुष्टिना स्थितः, एवं वामहस्ते(स्तो)ऽपि / वज्रबन्धैर्भवति खलु महाक्रोधनाथस्य मुद्रा वज्रवेगस्येति। तथा तर्जन्याद्यन्तबन्ध इति / इह तर्जन्योः परस्परमङ्कशबन्धः / अन्त इति कनिष्ठयोर्द्वयोर्बन्धः करपृष्ठयोगेन मुष्टिबन्धोऽङ्गष्ठी मुष्टिमध्ये / एवं त्रिभुवनविजया भर्तुस्त्रैलोक्यविजयस्य हृदये स्थितेति / चिह्नाकारास्तु शेषाः प्रकटितनियता देवतादेवतीनामिति / ___ तथा नागानां मुद्रा हस्ताभ्यां वज्रबन्ध इति / इह वामबाहूपबाहुसन्ध्युपरि दक्षिणबाहूपबाहुसन्धिबन्धेन वामकरोपबाहु सन्धिदक्षिणकरोपबाहुसन्ध्युपरि वामदक्षिणहस्तौ चलफणाकारो, एवं चलफणाकारमुद्रा फणीनाम् / एवं सव्यावर्तेनापि वेदितव्येति // 175 // इदानीं चिह्नमुद्रा उच्यन्तेश्लिष्टाङ्गुष्ठी कनिष्ठे कमलदलसमे मध्यमे सारिते च तर्जन्यो द्वेऽर्द्धवक्रे स्वकरतलगतेऽनामिके कुञ्चितेऽधः / मुद्रेयं पञ्चशूका भवति हि कुलिशे वज्रिणो दर्शनीया आराकारामुलीका ह्यभयकरतलेऽङ्गुष्ठकाद्याः समस्ताः // 176 // श्लिष्टेत्यादिना। इह पञ्चशूकवज्रमुद्रायाः करसंपुटं कृत्वाङ्गुष्ठौ श्लिष्टौ कनिष्ठिके द्वे श्लिष्टे कमलदलसमे ते मध्यमे द्वे प्रसारिते "समे मध्ये तर्जन्यौ द्वे वक्रे'ऽर्धचन्द्राकारे मध्यमयोः पृष्ठभागे स्वकरतलगतेऽना[242a]मिके कुञ्चितेऽधः। एवं मुद्रेयं पञ्चशूका भवति हि कुलिशे वज्रिणो दर्शनीयेति / दिव्यमुद्रापीयं पूर्वोक्तेति / तथा आराकारागुलोका उभयकरगता अगुष्ठकाद्याः समस्ता इत्यपरा वज्रमुद्रा प्रज्ञालिङ्गनायेति // 176 // . द्वौ हस्तौ वज्रबन्धौ भवति हि कुलिशं वज्रमुष्टया सघण्टा मुष्टयधं तीक्ष्णख ङ्गे भवति शरसमे तर्जनीमध्यमे च / तर्जन्याद्या स्त्रिशूलाः पुनरपि विरलास्त्वर्धमुष्टया त्रिशूले श्रीकां मुष्टिबन्धो भवति भयकरा श्रीकनिष्ठार्धचन्द्रा // 177 / / तथा द्वौ हस्तौ वज्रबन्धौ पूर्ववत् / भवति हि वज्रमुष्टया कुलिशं दक्षिण ऊर्ध्वकृतया। वामेऽधोमुष्टया घण्टा भवति / 'तथा मुष्टयर्धमनामिकाकनिष्ठामुष्टिमध्ये 15 1. भो. 'गत्वा' नास्ति / 2. ग. बन्धने / 3. ग. 'सन्धि "बाह' नास्ति / 4. भो. 'ते' नास्ति / 5. क. ख. 'समे' नास्ति / 6. ख. ग. च. छ. चक्रे / 7. ग. समस्तपरा / 8. ग. तदा।