________________ 10 पटले, 171-175 श्लो. ] मुद्रादृष्टिमण्डल विसर्जनवीरभोज्यविधिमहोद्देशः ध्यात्वाऽङ्गं स्पर्शनीयं समुकूटशिरसारभ्य पादान्तमेव एषा श्रीदिव्यमुद्रा कलुषमलहरा कालचक्रस्य राजन् // 173 // इह स्वशरीरे महाकवचाथ वामे हस्ते सुपूर्णो विमलशशधर इति। इह अकारादिपञ्चदशस्वरात्मकं चन्द्रमण्डलं वामे हस्ते सुपूर्ण विमलशशधरं पञ्चदशकलापरिपूर्णमिति / अ इ ऋउ ल अ ए अर् ओ अल् ह य र व ला इति स्वराः। एवं दक्षिणहस्ते वज्रसूर्यः [241a]पञ्चदशस्वरात्मकः 'ला वा रा या हा र आल् औ आर् ऐ आ ल ऊ ऋ ई आ इति सूर्यः सम्पूर्णः। अनयोः सूर्येन्द्रोः संपुटितं वचं भयकरं करालवजं क्रोधजमिति हूँकारजं पञ्चशूकं ध्यात्वा तेन वज्रेण वक्ष्यमाणया वज्रमुद्रया सवाङ्गं स्पर्शनीयम् / समुकुट इति उष्णीषसहितं शिरसारभ्य पादान्त' "पादनखपर्यन्तमेव / एषा श्रीदिव्यमुद्रा सर्वरक्षा कलुषमलहरा कालचक्रस्य राजन् // 173 // यत्किञ्चिद् ग्राह्यवस्तु क्षितिजसलिल गभंजस्वेदजाद्यमन्नं पानं सवीयं गुरुमपि चरणं मुद्रया स्पर्शनीयम् / यद्यत् कार्योपयोग्यं भवति गुणवशात्तस्य तद्योजनीयं भूम्याचं मण्डलार्थ चरणमपि गतौ योगिना ताडनीयम् // 174 // तथा अनया मुद्रया यत्किश्चिद् ग्राह्य वस्तु क्षितिजं 'सलिलजं समयं गर्भजं वा स्वेदजं वा, आदिशब्देन क्लेदजं वा समयम्, तथान्नं पानं 'सवीर्य मांसैः सह वक्ष्यमाणक्रमेण शोधनीयं 'बोधनीयं प्रदीपनीयमिति / एवं गुरुमपि चरणं देवतामूर्ती स्वचरणं गमनार्थं यद्यत् कार्योपयोग्यं तद्वस्तु भवति गुणवशात् सत्त्वरजस्तमोगन्धादिविषयवशात्, तस्य कार्यस्य तन्मुद्रया स्पृष्ट्वा योजनीयं भूम्याचं मण्डलार्थ चरणमपि गत्यर्थ योगिना ताडनीयमनया मुद्रयेति दिव्यमुद्रा // 174 / / इदानीं क्रोधनाथस्य मुद्रोच्यतेहस्ताभ्यां वज्रबन्धैर्भवति खलु महाक्रोधराजस्य मुद्रा तर्जन्याद्यन्तबन्धस्त्रिभुवनविजया मुष्टिबन्धेन भर्तुः / चिह्नाकारास्तु शेषाः प्रकटितनियता देवतादेवतीनां हस्ताभ्यां वज्रबन्धे भवति चलफणाकारमुद्रा फणीनाम् // 175 / / [241b] 1. ग. 'एवं' अधिक। 2. छ. हुं। 3. भो. Ses (मिति) / 4. च. यावन्न / 5. च. वम् / 6. क. ख. छ. 'सलिल' नास्ति / 7. ग. सर्ववीर्य, भो. dPah Bo (सवीर)। 8. ग. बोध्यम्, भो. rGyasPa (वर्धनीयं)। 9. भो. 'अपि' नास्ति / 15 20