________________ विमलप्रभायां [अभिषेक निद्रां पादप्रसारात् कुरु मम सुरतं जानुयुग्मप्रसारात् सर्वाङ्गे स्पृश्यमाने वदनगतकरे नास्ति मेलापको मे // 189 // [245b] तथा पाणौ पृष्ठे दर्शिते सति गच्छेति प्रवदति नियतम् / संमुखे दर्शिते सति तिष्ठ तिष्ठेति वदति / तथा जानुमर्दिते ऊरुदिते सति कथयति सुभगाऽद्य विश्रामय त्वम् / तथा निद्रां पादप्रसारात् कुर्व(विति 'नियतं ददाति / तथा कुरु मम सुरतं जानुयुग्मप्रसारादिति नियमः। तथा यदि सर्वाङ्गं स्वकं वामहस्तेन स्पृशति, वदने वामहस्तं ददाति / एवं क्रियमाने(गे) नास्ति मेलापको मे त्वया सार्धमिति वदति स्वाम्यादिना रक्षितत्वादिति // 189 / / अन्योन्यं हस्तबन्धे वदति मम गृहे चक्रमेलापकोऽद्य... अङ्गुष्ठानामिकाग्राद् बहुविधसमयैस्तर्पयामो यथेष्टम् / पादे कण्डूयमाने गमनमपि तथा बाह्य मेलापके च तर्जन्यन्योन्यबन्धे त्वपहरति भयं वज्रमित्रं त्वमद्य // 190 / / 15 तथा स्वकीयहस्तेऽन्योन्यं बन्धेऽङगुष्ठतर्जनीमध्ये विनिःसृत्य तदा वदति मुद्रयाऽद्य मम गृहे चक्रमेलापको भविष्यतीति, त्वमपि तिष्ठेत्यर्थः। अगुष्ठानामिकामाद्दर्शिते बहुविधसमयै स्तर्पयामो यथेष्टमिति वदति / तथा पादे कण्डूयमाने सति गमनमपि कथयति "बाह्यचक्रमेलापके, त्वमप्यागच्छेत्यभिप्रायः। तथा तर्जन्य कुशाकारेणान्योन्य बन्धे सति भयमपहरति वज्रमित्रं त्वमद्येति / एवं समयमेलापकमुद्रानियमः // 19 // इदानीमत्यन्तक्रुद्धानां मुद्रा उच्यन्तेकेशच्छेदे स्वदन्तर्वदति नरपशो पातनीयस्त्वमत्र अन्योन्यं दन्तघृष्टे तव पिशितमिदं भक्षणीयं मयाद्य / जिह्वौष्ठे लालिते च वदति तव तनी रक्तपानं करोमि ओष्ठे सन्दश्यमानेऽप्युदरगतमिदं भक्षयामस्तवान्त्रम् // 191 / / [246a] 1. ग. च. नियमं / 2. च. वदने च / 3. छ. स्तर्पयात्मा, भो. mChod Par Bya ( अर्प्यताम् ) / 4. च. वदति त्वाम् / 5. ग. च. बाह्ये / 6. क. ख. छ. तर्जन्याङ्कु०। 7. च. न्योन्यं / 8. च. भयमपि /