________________ 128 विमलप्रभायां [ अभिषेकपीठमित्यादिना। इह सामान्येन बालानां देशभ्रमणार्थं जालन्धरादिना पोठादिकमुक्तम् / तदेव सर्वत्र व्यापकं न भवति / षट्त्रिंशत्कुलानि पुनरेकनगर्यामपि तिष्ठन्ति योगिनीनाम् / येनात्र परमादिबुद्धे सर्वपृथ्वीव्यापकत्वाद् भोट्टादिचोनादिविषयेष्वपि पीठादीनि सन्ति, तान्येव लघुतन्त्रान्तरेण देशितानि सर्वनगर्यां पीठादीन्युक्तानि / पीठं तारादिवेश्म चतुर्विधम् / तथा शब्दवज्राद्यं वेश्म क्षेत्रं षड्विधम् / चर्चिकाचं वेश्म छन्दोहमष्टविधम् / मेलापकं जम्भिकाचं वेश्म दशविधम् / श्वानास्याचं वेश्म श्मशानाद्यमष्टविधम् / परमभुविगतं मूलपीठं सुगुह्यं मातुर्वेश्म द्विधा, तत्प्रकटितमवनौ 'चान्त्यजं 'हन्त्यजं वै डोम्बीचण्डालीगृहमिति। एवं शूद्रादिकं गृहं पीठादि संज्ञया योगिना वेदितव्यमिति सर्वत्र नियमः // 165 // इदानी मध्यात्मपीठादिसंज्ञोच्यते पीठं स्त्रीगुह्यपद्मं प्रभवति समये वज्रमेवोपपीठं . क्षेत्र छन्दोहमेलापकचितिभुवनं तद्वदेवं समस्तम् / पीठं वामाङ्गपूर्व ह्यपरमपि तथा दक्षिणं चोपपीठं एवं क्षेत्रादि सर्वं करचरणगतं चाङ्गुलीकान्तसोम्नः // 166 // पीठमित्यादिना। इह समयमेलापके पीठं सर्वत्र स्त्रोपगं भवति / उपपीठशब्देन पुरुषवलं भवति / एवं स्त्रीणां षडायतनं क्षेत्रं पुरुषाणामुपक्षेत्रम् / तथा स्त्रीणां समानवाय्वष्टकं छन्दोहं पुरुषाणामुपछन्दोहम् / एवं स्त्रीणां जिह्वा लम्बनं करद्वयं पादद्वयं पायु''सव्येतरनाडीद्वयं मूत्रशुक्रनाडीद्वयमेतत् कर्मेन्द्रियदशकं मेलापकं पुरुषाणामुपमेलापकम् / एवं घ्राणद्वये मेढ़े मलनिर्गमं श्रोत्रद्वये चक्षुये मुखे गुदे च, एवं श्मशानाष्टकं स्त्रीणां पुरुषाणामुपश्मशानमिति समस्तम् / तथोभयशरीरे प्रत्येक पीठं बामाङ्गं पूर्वम्। उपपीठं पश्चिम दक्षिणाङ्गम् / एवं द्विधा पीठम् / तथा वामेन्द्रियसमहं क्षेत्रम। दक्षिणेन्द्रियसमूहमपक्षेत्रम् / एवं कूर्मकृकरदेवदत्तधनञ्जयचतुष्कं छन्दो[238b]हम् / समानोदानव्याननागसमूह T 408 1. भो. Gan Gis Na hDir Sa Sgi Thams Cad Du Khyab Par Dam Pa Dan Pohi rGyud Du gSuis Pahi Phyir Ro. ( येनात्र सर्वपृथ्वीव्यापकपरमाद्यतन्त्र उक्तत्वात् ) / 2. भो. Ma bsTan To ( न्तरे न देशितानि)। 3. ग. च. भो. 'सर्वदेशेषु' इत्यधिकम् / 4. क. ख. ग. छ. एवं / 5. भो. mThar sKyes Ma Dan mThar skyes Ma ( अन्त्यजं चान्त्यजं ) / 6. ग. च. नास्ति / 7. ग. संज्ञं / 8. ग. च. भो. ०मध्यात्मनि / 9. छ. 'स्त्री' नास्ति / 10. ग. च. लम्बकं / 11. क. ख. ग. च. छ. सव्येतरं / 12. भो. 'मेढ़े'. नास्ति / 13. च. विषयं / 14. ग. च. भो. प्रत्येके /