________________ पटले, 166-167 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः 129 मुपछन्दोहम् / तथा वामे कर्मेन्द्रियसमूहं मेलापकम् / 'तथा दक्षिणे 'कर्मेन्द्रियसमूहमुपमेलापकम् / वामकर्णादिछिद्रमलनिर्गमं श्मशानम् / दक्षिणमुपश्मशानमिति / तथा करचरणादिगतमपरविशुद्धया पूर्ववामाङ्गं पीठम् / दक्षिणं पश्चिममुपपीठम् / तथा वामबाहुसन्धिः वामोरुकटिसन्धिः क्षेत्रम् / दक्षिणमुपक्षेत्रम् / वामोपबाहुसन्धिः 'जानूरुसन्धिश्छन्दोहम् / दक्षिणमुपछन्दोहम् / तथा करपादसन्धिद्वयं वामे मेलापकं *दक्षिणमुपमेलापकम् / 'वामाङ्गुलिनखानि श्मशानम् / 'दक्षिणमुप[श्म]शानम् / अथ वा उभयबाहुसन्धिद्वयं क्षेत्रम्, ऊरुसन्धिद्वयमुपक्षेत्रम् / एवं छन्दोहादिकमपि करचरणगतमपि चाङ्गुलोकान्तसीम्न इति समयमेलापके पीठादि समयसंज्ञा योगिना वेदितव्या // 166 // इदानीं सप्तत्रिंशद्वोधिपाक्षिकधGोगिनीनां विशुद्धिरुच्यतेदेव्योऽचिः स्मृत्युपस्थानमपि भवति वै कालचक्रे प्रसिद्ध प्रज्ञा बोध्यङ्गमाता त्वपरमपि तथा शब्दवज्रादिषट्कम् / अब्धिः सम्यक्प्रहाणान्यपरजलधयश्चद्धिपादाष्टकं स्यात् पञ्च क्रोधा बलानि प्रकटितनियतानीन्द्रियाण्येव पञ्च // 167 / / 15 20 देव्योऽचिरित्यादिना / इह चतस्रो देव्यो यथाक्रमेण कायानुस्मृत्युपस्थानं लोचना, वेदनानुस्मृत्युपस्थानं पाण्डरा इति पश्चिमदक्षिणम् / चित्तानुस्मृत्युपस्थानं मामकी, धर्मानुस्मृत्युपस्थानं तारेति वामपूर्वं कायभेदेन पीठोपपीठद्वयमिति 'कालचक्रे प्रसिद्धम् / नान्यस्मिस्तन्त्रे प्रसिद्धं गोपितं भगवतेत्यर्थः। तथा सप्तबोध्यङ्गानां मध्ये एक. बोध्य[239a]ङ्गं माता वज्रधात्वीश्वरी कुलपीठमुपेक्षासम्बोध्यङ्गमिति / अपरमपि तथा शब्दवज्रादिषट्कमिति / स्मृतिसंबोध्यङ्गं शब्दवज्रा / धर्म- प्रविचयसंबोध्यङ्गं स्पर्शवज्रा। वीर्यसंबोध्यङ्गं रूपवजा। उपक्षेत्रं कायभेदात् / तथा प्रीतिसंबोध्यङ्गं गन्धवज्रा। प्रथब्धिसंबोध्यङ्गं रसवज्रा। समाधिसंबोध्यङ्गं धर्मधातुवति / क्षेत्रं द्विधा। तथाब्धिः सम्यक्प्रहाणानीति। अनुत्पन्नानां १°पापानामनुत्पादाय प्रहाणं चर्चिका। उत्पन्नानां पापानां प्रहाणं कुशलमूलं वैष्णवी / अनुत्पन्नाना'मकुशलानां प्रहाणं कुशलोत्पादनं माहेश्वरी। 1 उत्पन्नाकुशलानां बुद्धत्वपरिणामनाप्रहाणं महालक्ष्मीः। उपछन्दोहाश्चत्वारः। अपरजलधयश्चतस्रो देव्य ऋद्धिपादा भवन्ति / तत्र छन्दऋद्धिपादो ब्रह्माणी। वीर्यऋद्धिपाद 26 1. ग. च. भो. 'तथा' नास्ति / 2. ग. च. भो. 'कर्मेन्द्रियसमूह' नास्ति / 3. क. ख. जानुसन्धि / 4. ग. 'दक्षिणमुपमेलापकम्' नास्ति / 5. ग. च. 6. ग. च. 'दक्षिणमुपश्मशानम्' नास्ति / 7. भो. 'समय' नास्ति / 8. क. कायचक्रे / 9. ग. संबोध्यङ्गानां / 10. ग. पापकानां / 11. क. ख. ग. च. छ. कुशलानां / 12. ग. भो. उत्पन्नकुशलानां / 13. ग. च. बुद्धत्वे /