________________ 127 पटले, 160-165 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः कृमिलसिवसालोमकेशा इत्यष्टौ च्छन्दोहभेदाः / तथाऽन्त्रं पित्तम् अस्थीनि मज्जा कालजं फुप्फुसं नाडो चर्माणि बुक्कं मेद इति दशकं मेलापकस्य भेदाः // 162 // कर्णाद्यष्टाङ्गकाये खलु विविधमलानि श्मशानप्रभेदाः कालाग्नीन्द्वर्कराहुः प्रकटितनियतं पीठभेदे चतुष्कम् / भोमः[237b]सौम्यश्च मन्त्री भृगुशनिफणिनः क्षेत्रभेदे च षट्कं पृथ्वीतोयाग्निवाताः क्षितिजसलिलजा वातजा वह्निजाश्च // 163 // अष्टौ छन्दोहभेदाः पुनरपि च तथा षड् रसा गन्धवर्णी स्पर्शः सब्दस्तथैव प्रकटितदश मेलापकस्य प्रभेदाः / पृथ्वीतोयाग्निवायुः क्षयमपि पुरतो वामसव्ये च पूर्वे. वर्णादीनां चतुर्णां विदिशि निधनताष्टश्मशानप्रभेदाः // 164 // // तथा कर्णमलं घ्राणमलम् अक्षिमलं जिह्वामलं भगमलं गुदमलं 'लिङ्गमलं कक्षमलमष्टाङ्गमलमित्यष्टौ श्मशान प्रभेदाः। तथा बाह्ये लोकधातौ पीठादिविशुद्धया समया उच्यन्ते / इह कालाग्निः, इन्दुः, अर्कः, राहुः पीठभेदे समयचतुष्कं लोचनादीनाम् / भौमः सौम्यश्च मन्त्री भृगुः शनिः फणीति केतुः-एते रूपवज्रादीनां "क्षेत्रभेदसमयाः। तथा पृथ्वी तोयं तेजो वायु. क्षितिजाः सलिलजा वह्निजा वातजाश्च, इत्यष्टौ ___15 स्थावरजङ्गमा भूताश्छन्दोहभेदे भूतजानां समया इति। पुनरपि च तथा षडरसाः, 'गन्धः, वर्णः, शब्दः, स्पर्श इति घश मेलापकस्य प्रभेदा: क्रोधजानामिति / पृथिव्यादीनां चतुष्कं वर्णादीनामपि क्षयः श्वासनिःश्वासाभ्यामिति . श्मशानस्य प्रभेदा आसुरीणामष्टौ समया इति पीठादिबाह्याभ्यन्तरसमयविशुद्धिनियमः // 163-164 // इदानीं पीठादिस्थानान्युच्यन्तेपीठं तारादिवेश्म स्फुटरवकुलिशाद्यं तथा क्षेत्रमुक्तं छन्दोहं चचिकाद्यं प्रभवति नृप मेलापकं जम्भिकाद्यम् / श्वानास्याद्यं श्मशानं परमभुविगतं मूलपीठं सुगुह्यं मातुर्वेश्म द्विधा तत्प्रकटितमवनौ चान्त्यजं ह्यन्त्यजं वै // 165 // 23 - [238a] 1. क. ख. च. छ. 'लिङ्गमल' नास्ति, गृहीतस्तु पाठो भोटसम्मतः / 2. ग. नभेदा / 3, ग. भेदेन / 4. क. ख. छ. शुक्रश्च / 5, ग. 'क्षेत्रभेद' नास्ति / 6. ग. च. भो. गन्धवर्णशब्दस्पर्श इति / 7. च. भो. नीमपपी० /