________________ 126 विमलप्रभायां [अभिषेकजिह्वा गुर्व भगं शब्दगन्धरूपरसस्पर्शधर्मधातुदेवीनां समयषट्कं शब्दवज्रादिषट्कमिति। एवं पूयः श्लेष्मा यूका कृमिक'लशिवसालोमानि केशा इति, समयाष्टकं च यथासंख्यं चचिका-वैष्णवी-वाराही-कौमारी-ऐन्द्री-ब्रह्माणी-रौद्रीमहालक्ष्मीयोगिनीनां भूतजानामिति / तथाऽन्त्रं पित्तम् अस्थीनि / मज्जा विविधतनुगतं सर्वसत्त्वानां तनुगतं कालजं फुप्फुसम् // 160 // नाडी चर्माणि बुक्कं भवति च दशक मेदयुक्तं नरेन्द्र कर्णे नासाक्षिवक्त्रेषु गतमपि मलं पायुमध्ये भगे च। कक्षाद्यष्टाङ्गकाये भवति नरपते चाष्टकं ह्यासुरीणां योगिन्योऽष्टाष्टकाः स्युः सह नखदशनाद् द्वादशाङ्गाः कपालैः // 161 // 10 - [237a] 20 नाडी चर्माणि बुक्कं मेदम् एवं दशकं भवत्यन्त्रादिकं मेदपर्यन्तं यथासंख्यं जम्भी 'स्तम्भी मानी अतिबला वज्रशृङ्खला भृकुटी चुन्दा मारीची रौद्राक्षी अतिनीला-आसां क्रोधदेवतीनां समयदशकमिति / एवं कर्णमलं नासिकामलम् अक्षिमलं जिह्वामलं' गुदमलं भगमलं लिङ्गमलं कक्षमलं सर्वाङ्गमलमिति समयाष्टकम् आसुरीणां यथासंख्यम्, श्वानास्या शुकरास्या जम्बुकास्या व्याघ्रास्या काकास्या गृध्रास्या गरुडास्या उलूकास्या-आसां समयाष्टकमिति / तथा योगिन्यो भीमादयो "या अष्टाष्टकाश्चतुःषष्टिकास्तासां समया नखानि विंशतिर्दन्ता द्वात्रिंशद् द्वादशखण्डानि कपालनाडीप्रवाहभेदेनेति चतुःषष्टिसमयाः। एवं शतकुलभेदेन शतसमयाः। "त्रिकूलं पञ्चकूलं चैव स्वभावैकं शतं कुलम्" इति वचनात् षट्त्रिंशत् कुलानि, चतुःषष्टिकुलानि / योगिनीनामेकत्वं शतकुलानि वेदितव्यानीति नियमः // 16 // इदानीं पीठादिभिः समयविशुद्धिरुच्यतेविण्मूत्रं रक्तमांसं विविधतनुगतं पीठभेदे चतुष्कं कर्णो नासाक्षिजिह्वा गुदमपि च भगं क्षेत्रभेदे च षट्कम् / पूयाद्याः केशसीम्नः क्षितितलनिलये चाष्टछन्दोहभेदा अन्त्राद्या मेदसीम्नो दिगिति च नृप मेलापकस्य प्रभेदाः // 162 // विण्मूत्रं रक्तमांसमिति / सकलसत्त्वानां विविधानां तनुगतं पीठ भेदे चतुष्कम् / कर्णो नासाक्षिजिह्वा गुदं भगमिति षट्कं क्षेत्रभेदे भवति। तथा पूयः श्लेष्मा यूका 25 . 1. च. लसि / 2. ग. 'च' नास्ति / 3. क. ख. छ. अस्थीति / 4. क.ख. छ. चर्मणि / 5. क. 'स्तम्भी' नास्ति / 6. क. ख. ग. छ. 'जिह्वामलम्' नास्ति / 7. ग. 'या' नास्ति / ८.ख. षष्टिः , क. छ. षष्टी। ९.क.ख. भेदितव्या। 10. ग. च, भेदेन /