________________ पटले, 156-160 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः स्यायाः। मांसशूलं काकास्यायाः। 'वीणोपाङ्गं गृध्रास्यायाः / किन्नरा काणं च गरुडास्यायाः। मयूरपिच्छम् उलूकास्यायाः। इत्यष्टचिह्नानि मुखाद्यष्टद्वार'शुदया। अष्टकलानां दृश्यन्ते। एवं षट्त्रिंशचिह्नानि यासां दृश्यन्ते, तास्तत्कुलिन्यः / तेन चिह्वेन ज्ञात्वा पूजनीया इति योगिनीनां नियमः // 158 // भूयः शूद्रादिचिह्नं भवति गुणवशादुत्पलं वा हलं वा क्षत्रिण्या रत्नपढें भवति नरपते लेखनी रत्नमाला / वैश्यायास्तद्वदेवं जलचरसहितं ताम्रपात्रं द्विजात्या मातुश्चिह्न चतुर्धा डमरुकपटहं मौलिरेवाक्षसूत्रम् // 159 // भूयः पुनः शुव्राविचिह्न तारादीनामुच्यते। इह शूद्रगुणवशात् ताराकुलजानाम् उत्पलं वा हलं वा संदृश्यते। क्षत्रिण्याः पाण्डराकुलजाया रत्नपट्टम्। 10 लेखनी रत्नमाला वैश्याया लोचनाकुलजायाः। जलचरं शङ्खः। ताम्रपात्रं T 407 द्विजात्या मामकीकुलजायाः। एवं पूर्वापरं मातुश्चिह्नं चतुर्धा। डमरुकं पटहं डोम्ब्या वज्रधात्वीश्वरीकुलजायाः। तथा मौलिक्षिसूत्रं चण्डाल्याः प्रज्ञापारमिताकलजायाः / एवं ललाटे स्कन्धे वा कटयां वा हस्तपादेषु वा यस्या[236b] यच्चिह्न दृश्यते गृहे वा लिखितं पूजयेत् सा तत्कुलिनी योगिना वेदितव्या। तया 15 यवृत्तं समयद्रव्यं तद्भक्षणीयं यावत् सप्तावर्त तत् पर्यवस्यति / ततः खेचरत्वं तेन समयद्रव्येण भवतीति नियमः // 159 // ___इदानीं विष्ठादीनां समयद्रव्याणां पृथिव्यादिदेवताविशुद्धिरुच्यते विष्ठा मत्रं सरक्तं भवति सपिशितं देवतीनां चतुष्क कर्णी नासाक्षिजिह्वा गुदमपि च भगं शब्दवज्रादिषट्कम् / पूयः श्लेष्मा च यूका कृमिकलशिवसा लोम केशाष्टकं च अन्त्रं पित्तास्थिमज्जा विविधतनुगतं कालजं फुप्फुसं च / / 160 // इह विष्ठा मूत्रं सरक्तं सपिशितं यथासंख्यं पृथिव्यप्तेजोवायुदेवतीनों चतुष्क भवतीति / शुक्रं वज्रधात्वीश्वरी आकाशधातुरनुक्तावपि'। एवं कर्णी नासाक्षि -- 1. क.ख.ग.च.छ. वीणोपाङ्गं किन्नरा गृध्रास्यायाः, काण्डं गरुडास्यायाः / 2. ग. विशुदया। 3. ख.ग. योगिनां, भो. नास्ति / 4. भो. Ran Gi dBral Baham(स्वललाटे) 5. ग. वाम / 6. ख. ग. च. भो. 'तत्' नास्ति / 7. भो. इतः परं De bsTen Par Bya sTe (तत् सेवनीयम् ) / 8. भो. Lha rNams Kyi ( देवानां)। 9. ग. 0 रनुरक्ता।