________________ 124 विमलप्रभायां [ अभिषेक-.. वज्रं पञ्चसु जन्मस्थानेषु वर्णतो दृश्यते, सा वज्रधात्वीश्वरी करतले वा' पादे वा रेखाभिः। तेन सा आकाशधातुकुलिनी। एवं खङ्गः तारायाः। बाणो वा रत्नं पाण्डरायाः / शतदलकमलं मामक्याः / पञ्चमं चक्रचिह्न लोचनाया वायुतेजउदकपृथ्वी कुलानां चिह्नानि / तथा वीणा शब्दवज्रायाः / आदर्शो रूपवज्रायाः। पात्रं रसवजायाः। पुष्पमाला गन्धवजायाः। वस्त्र स्पर्शववाया। धर्मोदयो धर्मधातुवज्रायाः पञ्चसु जन्मस्थानेषु हस्तपादेषु वा दृश्यते विषय- . कुलजानामिति / शब्दवज्रादिचिह्नम् एवं वै कतिकाद्यमष्टविधम् / तत्र कतिका चर्चिकायाः। कलशं वैष्णव्याः। 'कट्छुकं वाराह्याः। पीतवस्त्रं कौमार्याः // 156 // 10 सूची वा मुद्गरो वा प्रकटितनियतो मत्स्यजालं त्रिशलं लक्ष्मीचिह्न शिला वै भवति नरपते चाष्टमं भूतजानाम् / जम्भ्यादेऽलक्तपात्रं दिनकरसदृशं कोशकीट: कुशश्च शस्त्री चोपानही च क्षुरक इति तथा पादुका चातपत्रम् // 157 // "सूची वा मुद्गरो वा ऐन्द्रयाः। मत्स्यजालं ब्रह्माण्याः। त्रिशूलं रौद्रयाः। शिलाचतुरस्रं लक्षम्याः / इत्यष्टचिह्नानि भूतजानाममराद्यकुलजानामिति / तथा क्रोधजानां दशकम् / तत्र 'जम्म्या अलक्त पात्रं दिनकरसदृशं वर्तुलम् / स्तम्भ्याः कोशकोटः / कुशो मानिन्याः। अतिबलायाः छुरिका। उपानट् मारीच्या। क्षुरकः चुन्दायाः / पादुका भृकुट्याः / आतपत्रं वज्रशृङ्खलायाः // 157 // [286a] कुद्दालं वेणुदण्डं प्रभवति दशकं क्रोधजानां स्वचिह्न गोशृङ्गं मल्लतन्त्री भवति करतले त्राकुटी मांसशूलम् / वीणोपाङ्गं च काण्डं भवति च शिखिनः पिच्छमत्राष्टमं च षत्रिंशच्चिह्नभेदाः प्रवरभुवितले योगिना पूजनीयाः // 158 // कुद्दालं रौद्राक्ष्याः। वेणुदण्डमति'बलायाः। एवं भवति वशकं क्रोधजानां१२ स्वचिह्न द्विधा कर्मेन्द्रियाणामिति / तथा आसुरीणां चिह्नम-गोशृङ्गं श्वानास्यायाः। १३मल्लमिति सरावं शूकरास्यायाः। तन्त्री जम्बुकास्यायाः / १"त्राकुटी व्याघ्रा 20 1. ग. खड्गम् / 2. ग. च. 'वा' नास्ति / 3. ग. च. भो. एवं वायु / 4. ग. च. भो. कुलजानां / 5. ग. पञ्चजन्म / 6. भो. bCugZar (कट्छुक ?) / 7. क. छ. शुचि, ख. ग. च. शचि / ८.च. क्रोधराजानां / 9. क. ख. छ. यम्भ्या / 10. क. ख. ग. च.छ. पत्रं / 11. ग. च. भो. नीलायाः। 12. च. राजानां / 13. भो. Kham Po (मल्ल)। 14. च. शरावं, ग. शरावः। 15. ग. ताकुटी, भो. hPhar Ba (कोक)।