________________ 10 पटले, 152-156 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः 123 शन्मुद्राः। एवं प्रत्येकाक्षरेण जनितानि स्वरसहितेन षट्त्रिंशद्योगतन्त्राणि, एवं योगिनीकुलतन्त्राणि। भगवत्या साधं सर्वं सप्तत्रिंशदात्मकं वेदितव्यमित्यवनितलगतानीति नियमः। शेषाणि शुद्ध[235a]कुलानि 'न भवन्ति, नानाव्यञ्जनधर्मत्वादिति / एवं षट्त्रिंशत् / कुलमण्डलानां वनं योगिनीनां पूजा प्रतिपूर्णिमायां कर्तव्येति तथागतनियमः। 153-154 // इदानीं चक्रमेलापकेऽर्घादिकमुच्यतेतोयाघ गन्धधूपं कुसुममपि फलं चाक्षतानि प्रदीपो नैवेद्यं चात्र वस्त्रं भवति हि दशकं चक्रमेलापके च / शुक्रं मूत्रं च मज्जा विडपि च पिशितं कालजं पित्तरक्तमन्त्रं चर्माणि राजन् भवति दशविधं चक्रमेलापके च // 155 // तोयेत्यादिना। तोयपात्रम् अर्घपात्रं गन्धपात्रं धूपपात्रं पुष्पपात्रं फलपात्रम् अक्षतपात्रं प्रदीपपात्रं नैवेद्यपात्रं वस्त्रपात्रम् एवं दशविधं पूजाद्रव्यम्, गणचक्रमेलापके पूजार्थं मण्डलचक्रेऽपि। तथाध्यात्मद्रव्यं दशविधं भवति शुक्र मूत्रं च मज्जा विट् पिशितं कालजं पित्तं रक्तम् अन्त्रं चर्माणि / भवति बशविषं चक्रमेलापके योगिनीनां पूजाकर्मार्थम् / राजन्निति सम्बोधनम् // 155 // ... इदानीं तारादि'कुलोत्पन्नानां षट्त्रिंशच्चिह्नान्युच्यन्ते वज्र खड्गश्च बाणः शतदलकमलं पञ्चमं चक्रचिह्न वीणादर्शश्च पात्रं भवति नरपते पुष्पमाला च वस्त्रम् / षष्ठो धर्मोदयो वै भवति करतले शब्दवज्रादिचिह्न एवं वै कतिकाद्यं कलश इति तथा कट्छुकं पीतवस्त्रम् // 156 // . इह गणचक्रे वा प्रविष्टानां ग्रामे वा नगरे वा स्थितानां योगिनीनां यदा ललाटे वा उभयस्कन्धे वा वामे सव्ये कटिप्रदेशे वा कायवर्णाद् यदपरवर्णान्तरमधिगतं भवति, तच्चिद्रं वर्णतो वेदितव्यम् / यत् पुनर्हस्तपादतले भवति, तद् रेखाभिर्वेदितव्यम् / तेन यो[235b]गिनीनां करग्रहणाय नारीपुरुषलक्षणं शिक्षितव्यम् / येन परस्त्रियोऽपि हस्तं स्वकीयं लक्षणार्थं समर्पयन्ति / तेन व्यपदेशेन तासां शरीरस्थं हस्तपादतलस्थं वा गृहे लिखितं वा चिह्न वेदितव्यमित्युपायः। तत्र यस्या 20 25 1. च. वा। 2. ग. चर्माणीति / 3. ग. मेलापके च / 4. भो. Lha Mo rNams ( देवीनां)। 5. ग. भो. करणार्थ / 6. ग. ताराकुलो०। 7. ग. 'नगरे वा' नास्ति / 8. ग. भो. वामे वा। 9. च. भो. 'वा' नास्ति / 10. ग. च. 'अपि' नास्ति / 11. क. ख. छ. शरीरस्थां, ग. ०स्थ / 12. क. स. च. छ.'वा' नास्ति /