________________ 122 - विमलप्रभायां [ अभिषेक-. भेरुण्डः / अम्बरीक इति / नरपते काकास्यादीनामासुरीणां भवति दिव्यपक्ष्यष्टकम् / एवं षट्त्रिंशज्जातिभेदाः क्षितिभुवनगता भूचरीखेचरीणां द्वासप्ततिसमयाः। पूजाकाले समस्ताः कुलगतसमया योगिना भक्षणीयास्ते पुनर्योगिनीभिदत्ताः। मूल् मोहात् कदाचिद् गणचक्रादिके दत्तान् समयान् त्यजति, तदा क्षिप्रं नाशं प्रयाति जुगुप्साचित्तेनेति // 152 // . इदानीं शरीरावयवसमया उच्यन्तेदन्तः केशैस्त्वगायः सपिशितसनहार्वस्थिबुक्कैश्च पद्मर्यकाभिर्लोमकीट: प्रवरनरपते फुप्फुसैरन्त्रमेढ़: / वीर्यैः पि[234b] ताम्बुपूर्यदिविधतनुगतैर्लोहितः स्वेदमेदैरश्रुभ्यां खेटसिंहाणि(ण)जलमिव वसावर्णगन्धैश्च विष्ठः / / 153 // .. जिह्वाक्षिश्रोत्रनासा सशशिदिनकरैर्देवताः पूजनीयाः / षट्त्रिंशच्चाक्षराणि प्रकृतिगुणवशाद् बोधिपक्षाश्च धर्माः / षट्त्रिंशद् धातुभेदाः सकलगुणगता जातयश्चिह्नमुद्राः षत्रिंशद् योगतन्त्राण्यवनितलगतान्यत्र वै योगिनीनाम् // 154 // / दन्तैरित्यादिना। दन्तैः केशैः त्वग्भिः पिशितैः 'नहारुभिरस्थिभिक्षुक्कैः पर्योनिभिः, यूकाभिर्लोमकोटैः फुप्फुसैः, अन्त्रैः मेढ़ेः वीर्यैः पित्तरम्बुभिः पूर्वविविधतनुगतैः सत्त्वानां शरीरगतैरिति / लोहितैः स्वेदैः मेदैरवुभ्यां खेटकाभ्यां सिंहाणाभ्यां जलैलसिभिः "वसाभिर्नाना"वर्ण नागन्धैजिह्वाभिरक्षिभिः कर्णे सिकाभिः, शशीति शुक्रः, दिनकरैरिति रजोभिः' समयद्रव्यैः देवता: पूजनीयाः। योगिभिरिति नियमो गणचक्रे। षत्रिंशच्चाक्षराणि तासां प्रकृतिगुणवशाद् आकाशादि गुणवशादिति / ङ घग ख क, ञ झ ज छ च, ण ढड ठट, म भ बफ प, न ध द थ त,-कश प स ह य र व ल क्ष इति / एते बोधिपक्षाश्च धर्मा भगवत्या साधू सप्तत्रिंशत् / एवं षट्त्रिंशद्धातुभेदाः। अ आ इ ई ऋ ऋ उ ऊ ल ल अं अः / अ आ ए ऐ अर् आर् ओ औ अल आल् अं अः। ह हा य या र रा व वा ल ला हं हः। इति षट्त्रिंशद्धातुभेदाः / एता सकल गुणगता जातयः। षट्त्रिंशच्चिह्नानि षट्त्रिं 20 1. भो. Chu rGyus ( स्नायु ) / 2. क. र्वक्त्रैः / 3. ग. च. खेटाम्यां / 4. भो Sag Dan bSan Ba ( वसाभिविष्टाभिश्च ) / 5. ग. चूर्णे / 6. ग. च. छ. भो. भिरेभिः / 7. ख. ग. च. छ. भो. धातु / 8. ख. ग. च. छ. भो. 'धातुभेदाः' नास्ति / 9. ग. भुवि, च. भो. भुवन /