________________ पटले, 148-152 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः 121 * तथा गोधा काकास्या, मूषकः शूकरास्या, शालिजातको जम्बुकास्या, कपिरपि व्याघ्रास्या, शशकः श्वानास्या, शल्लको गृध्रास्या इषुको गरुडास्या, कृकलासः उलूकास्येत्यष्टौ असुरजातीनां समयाः, रूपपरिवर्तनं च। एवं भूचरजलचरसमयनियमः। ___इदानी खेचरसमया उच्यन्ते-मानी इत्यादिना। इह श्वादि'चतुष्कं यथा तथा मानी पक्षी चातकः शुकः कोकिला शारिकेति, प्रकटितनलधिश्चत्वारः समयास्तारादयः / तथा शब्दवज्ञादयः षट् / लावः पारावतः बकः चटकः चक्रवाक: हंसः इति नियमः। तथा भतजा समया अष्टौ। क्रञ्चा कोकिलाक्षी, [234a]जकी। भगवतीति' पोतकी, तित्तिरी सारसा // 150 // नीराविष्टो बलाका सहरसवसवो वेदितव्याः क्रमेण काको गृध्रोऽप्युलूको मृगरिपुशिखिनौ कुक्कुटो भेद्रधाराः / याजी वृक्षारिरन्याः प्रभवति दशकं क्रोध क्रोधजातिः नीलाक्ष: श्रीचकोरस्त्वनिलगुदमुखो बुक्किपादोर्वशायी // 151 // नीराविष्ट इति जलकाकः / बलाकेति। वसवोऽष्टौ वेदितव्याः। चामुण्डादीनां क्रमेणेति। तथा 'क्रोधजानां समया दश। काकः। गृध्रः / उलूकः / मृगरिपुरिति 15 T 406 महा याजी। शिखी कुक्कुटः / भेद्र इति संचाणः। घार इति चिल्ला। प्याजी वृक्षारोति 'क्रोधजं क्रोधजातिजम्भ्यादिकं यथाक्रमेण / तथा श्वानास्याद्यष्टौ आसुरीणां समयाः। नीलाक्षः, चकोरः अनिलो १२वाग्वुलिका, गुदमुख इति / १बुक्कीति दात्यूहः / पादोर्ध्वशायी टिटिभिका // 151 // भेरुण्डश्चाम्बरीको भवति नरपते चाष्टमो दिव्यपक्षी षट्त्रिंशज्जातिभेदाः क्षितिभुवनगता भूचरीखेचरीणाम् / पूजाकाले समस्ताः कुलगतसमया योगिना भक्षणीया मूखों मोहात् कदाचित् त्यजति नरपते क्षिप्रनाशं प्रयाति // 152 / / 1 भो. Khyi gDon Ma (श्वानास्या)। 2. भो. Bya gDon Ma (काकास्या)। 3. ग. चतुष्टयं / 4. क. ख. छ. 'चटकः' नास्ति / 5. ग. च. भो. वाकश्च / 6. ग. 'इति' नास्ति / 7. क. ख. क्रोधानां / 8. भो. Hor Pa Chen Po (महाश्येन ), क. ख. छ. पाजी। 9. भो. Sa Na Tsa Ka (संचक), छ. संचानः / 10. क. ख. छ. भो पाजी / 11. क्रोधराज / 12. च. वाघु०, भो. नास्ति / 13. ग. च. चुक्कीति /