________________ / 6 पटले, 142-148 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः नारी कामानुरक्ता नररुधिररता राक्षसी मारचित्ता क्षीराशा नागिनी च प्रवरमहितले योगिना पूजनीया / एवं चान्ये स्वभावाः प्रकृतिगुणवशाद योगिना वेदितव्याः षट्त्रिंशद्भेदभिन्नाः क्षितितलनिलये खेचरीभूचरीणाम् // 146 // नारी कामानुरक्ता नररुधिररता राक्षसी मारचित्ता क्षीराशा नागिनी स्यात् प्रवरभुवितले योगिना पूजनीया। सर्वत्र पीठोपपीठा दिकेष्विति नियमः। एवं चान्ये मिश्रस्वभावाः प्रकृतिगुणवशाद योगिना वेदितव्याः, चचिकादीनामिच्छाप्रतीच्छास्वभावेन वक्ष्यमाणविधिना साधनापटले / एवं षट्त्रिंशद्धेवभिन्नाः क्षितितलनिलये खेचरीभूचरीणाम् // 146 // इदानीं देशकस्य पाननियम उच्यतेमद्यं प्रज्ञास्वभावं समधुजगुडजं धान्यजं वृक्षजं वा / मुद्राहीनः पिबेद् यः स भवति विषयी चावृतो मारवृन्दैः / तस्मात् प्रज्ञाधिमुक्तं कलुषमलहरं मन्त्रिणां सिद्धिदं स्यान्मुद्रां यां काञ्चिदस्मिन् समयविरहितां पानहेतोः प्रकुर्यात् // 147 // [ 233a] मद्यमित्यादिना। इह सर्व मद्यं प्रज्ञास्वभावं मधुज गुडजं धान्यजं वृक्षजं वा। अन्यद्वा मुद्राहीनः पिबेद य आचार्यः, स भवति विषयो, मद्यप इत्यर्थः। आवृतो मारवृन्दैर्भवति / तस्मात् प्रज्ञा धिमुक्तं कलुषमलहरं मन्त्रिणां सिद्धिदं स्यादिति / मुद्रां यां काञ्चिदस्मिन् मद्यपान काले मण्डले गणचक्रं विना समयविरहितामपि पानहेतोः प्रकुर्यात् / वज्रपूजार्थमिति नियमः // 147 // येन चतुर्थः समयो भवति सेवितो योगिनां (ना), तस्य "गुणा उच्यन्तेएको राजन् शशाङ्को मरणभयहरः सेवितः सर्वकालं प्रज्ञाधर्मोदयस्थो दिनकरसहितः किं पुनर्योगयुक्तः / अक्षोभ्योऽमोघसिद्धिजिनवरसहितः श्वाऽश्वगोहस्तियुक्तः क्लेशानां वज्रदण्ड: पशुजनभयदश्चाष्टमोऽन्योऽतिरौद्रः // 148 // एको राजन् शशाङ्को मरणभयहरः 'सेवितः सर्वकालम् अच्युतसुखेन / प्रज्ञाधर्मोदयस्थो दिनकरसहितो बोधिचित्तधातुर्बाह्ये भक्षितो मरणभयहरः / किं पुनर्योग 1. ग. दिष्विति / 2. ग. जमिक्षु / 3. क. ख. ०घियुक्तं। 4. ग. पाके / 5. ग. च. छ. गुण उच्यते / 6. क. ख. 'सेवितः""भयहरः' नास्ति / 15 30