________________ 10 118 विमलप्रभाया [ अभिषेक- / नियमः। इदानीं योगिनां लक्षणमुच्यते-सिंहश्चैकान्तवासो विषयविरहितो निर्भयस्त्यागशीलः, अक्षोभ्य इति / सारङ्गः शी[232a]घ्रगामी क्षरलघुविषयस्त्रस्तचित्तोऽतिभीतः, अमोघसिद्धिरिति // 142 // अश्वो वै कामलोलो भवति परवशो मूत्रगन्धः परार्थी स्तब्धाक्षो मन्दगामी प्रकृतिगुणजडों मत्स्यगन्धो वृषः स्यात् / कामी वै मन्दगामी भवति खलु गजः पतिगन्धोऽतिमूर्खः षट्त्रिंशद्भेदभिन्नाः क्षितितलनिलये वर्णगन्धस्वभावाः // 143 // अश्वो वै कामलोलो भवति परवशो मूत्रगन्धः परार्थीति रत्नसंभवः / स्तब्धाक्षो मन्दगामी प्रकृतिगुणजडो मत्स्यगन्धो वृषः स्यावित्यमिताभः। कामी वै मन्वगामी भवति खलु गजः पूतिगन्धोऽतिमूर्ख इति वैरोचनः / इत्येवं क्वचित् शुद्धजातिः / योगिनां' सर्वत्र मिश्रजातिः। एवं पत्रिंशद्भेदभिन्नाः क्षितितलनिलये वर्णगन्धस्वभावा 'अन्योन्यमिश्रजाः सन्तः(न्ति) // 143 // पूजार्थं कामशास्त्रं बहुगुणनिलयं योगिना वेदितव्यं नातुष्टा सिद्धिदा स्यात् सुरतमपि गता योगिनी योगिनश्च / दिव्या देवी पिशाची भवति च मनुजा राक्षसी नागिनी च दिव्या श्रीधर्मधातुर्भवति गुणवशाच्छब्दवज्रा च देवी // 144 // पैशाची गन्धवज्रा भवति च मनुजा रूपवज्रा नरेन्द्र क्रूरा सा राक्षसी या खलु रसकुलिशा नागिनी स्पर्शवज्रा। दिव्या सत्त्वोपकारी व्रतनियमरता संयमध्यानशीला देवी भोगानुरक्ता प्रभवति मलिनोच्छिष्टरक्ता पिशाची // 145 // [ 232 b] अथ तासां दूतीनां पूजार्थं कामशास्त्रं बहुगुणनिलयं योगिना वेदितव्यमिति / कत:? यतो नातष्टा सिद्धिदा स्यात सरतमपि गतायोगिनी योगिनश्चेति, अतो लौकिकसिद्धयर्थं कामशास्त्रं ज्ञातव्यमिति नियमः। इदानीं दूतीनां धर्मधात्वादिकुलमुच्यतेदिव्येत्यादिना। इह दिव्या धर्मधातुः, देवी शब्दवता, पिशाची गन्धवजा, मनुजा रूपवज्रा, राक्षसी रसवजा, नागिनी स्पर्शवजेति / तत्र दिव्या सत्त्वोपकारी व्रतनियमरता संयमध्यानशीला देवी भोगानुरक्ता प्रभवति मलिनोच्छिष्टरक्ता पिशाची॥ 144-145 // 1. ग. अन्योन्याः / 2. ग. च. मिश्राः। 3. ग. च. अत आसां / 4. क. 'राक्षसी रसवजा' नास्ति।