________________ पटले, 137-142 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः 117 भवन्ति। तत्र कस्तूरीगन्धः, पद्मगन्धः, मूत्रगन्धः, प्रकृतिराकाशादिः, तस्य गुणवशाद आमिषः पूतिगन्धः / / 139 // श्रीभद्रा पद्मिनी वै भवति जलचरी चित्रिणी हस्तिनी च श्रीस्तारा पाण्डराख्या भवति कुलवशान्मामकी लोचना च / योगी सिंहो मृगोऽश्वो भवति च वृषभः कुञ्जरो जातिभेदादक्षोभ्योऽमोघसिद्धिविमलमणिकरः पद्मपाणिश्च चक्री // 140 // यथासंख्यं श्रीभद्रा पद्मिनी शङ्खिनो चित्रिणी हस्तिनोति / आसां कस्तूरिकादिगन्धो यथाक्रमेण भवति / श्रीरिति वज्रधात्वीश्वरी धीः। 'सुभद्रा तारा पद्मिनी। पोण्ड[231b]रा शङ्खिनी। मामको चित्रिणी। लोचना हस्तिनी च। एवं योग्यपि पञ्चधा, सिंहो मृगोऽश्वो वृषभः कुञ्जरो जातिभेदात् / अक्षोभ्यः सिंहः। अमोघसिद्धिः मृगः। रत्नसंभवोऽश्वः। अमिताभो वृषभः / वैरोचनो गज इति / ततः पूर्ववद् गन्धनियमो जातिनियमश्चेति // 140 // . इदानीं शरीरलक्षणमुच्यते तन्वनी. सूक्ष्मकेशा मृदुकरचरणा वत्सला श्रीसुभद्रा किञ्चित् तन्वी प्रलम्बा त्वचपलनयना पद्मिनी वक्रकेशा / निर्लज्जा तीव्रकामा बहुकलहरता शङ्खिनी स्वल्पकेशा दीर्घा सर्वाङ्गपूर्णा खलु लघुविषया चित्रिणी दीर्घकेशा // 141 // तन्वङ्गीत्यादिना। इह सुभद्रा तन्वङ्गो सूक्ष्मकेशा मृदुकरचरणा सत्त्ववत्सलेति वज्रधात्वीश्वरी। एवं किञ्चित् तन्वी प्रलम्बाऽचपलनयना पधिनी वक्रकेशेति तारा। तथा निर्लज्जा तोत्रकामा बहुकलहरता शङ्खिनी स्वल्पकेशेति पाण्डरा / दीर्घा सर्वाङ्गपूर्णा खलु लघुविषया चित्रिणी दोर्घकेशेति मामकी // 141 / / स्थूला खर्वा दृढाङ्गी सुकठिनविषया हस्तिनी स्थूलकेशा दूतीनां शुद्धजातिः क्वचिदिह हि भवेत् सर्वदा मिश्रजातिः। सिंहश्चैकान्तवासी विषयविरहितो निर्भयस्त्यागशील: सारङ्गः शीघ्रगामी क्षरलघुविषयस्त्रस्तचित्तोऽतिभीतः // 142 // एवं स्थूला खर्वा दृढाङ्गी सुकठिनविषया हस्तिनी स्थूलकेशेति लोचना। एवं दूतीनां शुद्धजातिः क्वचिदिह हि भवेत् सर्वदा मिश्रजातिः। [इति] षट्त्रिंशद्रुतीनां 7405 . 1. ग. श्रीभद्रा / 2. क. ख. 'मामकी' नास्ति /