________________ विमलप्रभायां [ अभिषेक__एवं पातालेष्वष्टचण्डाः श्वानास्यादयः। दशदिशिवलये क्रोषजा मर्त्यलोके / अष्टौ प्रेताख्याः प्रेतलोके। सुरवरनिलये शब्दवज्रादिषट्कम्, षट् कामावचराणाम् / ब्रह्माण्डे श्रीचतस्रः, ब्रह्मकायिकादीनां रूपिणां पृथ्वीकृत्स्नादिभाविता'नामरूपिणां शून्यधातुः। प्रवरशिवपुरे एकमाता ज्ञानधातुः प्रज्ञापारमिता। एता विश्वं शरीरं संहारयन्ति प्रकुपितवदनाः पालयन्त्येव तुष्टाः / इति योगिनीकुलनियमः॥ 137 // इदानीं वज्रपूजानियमो योगिनां कर्ममुद्रासिद्धयर्थमुच्यतेबाला वृद्धास्तरुण्यः समलिनतनवो ब्राह्मणी क्षत्रिणी च वैश्या शूद्रान्त्यजा वा गतनयनकराश्छिन्नकर्णीष्ठनासाः / आचार्यर्बोधिहेतोः सकरुणहृदयैः पूजनीयाः समस्ताः ..... प्रज्ञोपायेन राजन् व्यपगतकलुषैर्बोधिचर्यानुरूद्वैः // 138 // बालेत्यादिना। इह गणचक्रे एकान्ते भावनाकाले वा विजने बाला वृद्धास्तरुण्यो वा समलिनतनवो वा ब्राह्मणी वा क्षत्रिणी वा वैश्या वा शूद्रा वा अन्त्यजा वा, गतनयनकरा वा, छिन्नकर्णा वा, छिन्ननासा वा, छिन्नौष्ठा वा। इत्याद्यङ्गविकला आचार्योगिभि[231a]र्वा बोधिहेतोः परमकरुणया सेवनीयाः समस्ताः, प्रज्ञोपायात्मकेन योगेन, व्यपगतकलुषैः मानादिदोषमुक्तैः, बोधिचर्यानुरूद्वैः सर्वसङ्गबाह्यगृहद्वन्द्वमुक्तैरिति भगवतो नियमः // 138 // इदानीं वज्र पूजायां चतुर्मुद्रासंज्ञोच्यतेआदी स्त्री गुह्य मुद्रा भवति हि समये श्रीनरो दिव्यमुद्रा क्रीडाङ्गं कर्ममुद्रा भवति समसुखैर्वीन्द्रियैर्धर्ममुद्रा। दूतीनां पञ्चगन्धास्तनुकमलगता जातयः पञ्च तासां कस्तूरीपद्ममूत्राः प्रकृतिगुणवशादामिषः पूतिगन्धः // 139 / / आदावित्यादिना। इह समयमेलापके चतुर्धा संज्ञा। आदौ या प्रज्ञा स्त्री सा गुह्यमुद्रोच्यते। श्रीनरो योगी उपायो दिव्यमुद्रा भवति समये / तयोर्मेलापके क्रीडाङ्गं चुम्बनादिकं कर्ममुद्रोच्यते / द्वीन्द्रियसंयोगे समसुखैधर्ममुद्रोच्यते / [इति] चतुर्धा समय'भाषा वज्रपूजायामुक्ता / इदानी दूतीनां शरीरे वा योनौ वा गन्धलक्षणमुच्यते-दूतीनामित्यादिना। इह दूतीनां पश्चगन्धा भवन्ति तनुगताः कमलगता वा। एवं जातयः पञ्च तासां 15 1. च. भो. कानां / 2. छ. मात्रा। 3. क. अन्यजा / 4. ग. सर्वमङ्गल, च. भो. सर्वा० / 5. छ. पूजया / 6. छ. भावा / 7. ग. च. मुक्तति /