________________ 115. 10 पटले, 131-137 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः का[230a]कास्या वर्वरी च प्रकटितनियता पुक्कसी गृध्रवक्त्रा श्रीभिल्ली तायवक्त्रा भवति हि शबरी चाष्टमोलूकवक्त्रा // 134 // श्वानास्या म्लेच्छा। शूकरास्या 'हड्डिनी। जम्बुकास्या मातङ्गो / व्याघ्रास्या तापिनी। काकास्या वर्वरो। गृध्रास्या पुक्कसी। गरुडास्या भिल्ली। उलूकास्या शबरीत्यष्टौ प्रचण्डाः / / 134 // षट्त्रिंशद्वर्णभेदैः क्षितितलनिलये योगिनीनां कुलानि पीठे क्षेत्रोपक्षेत्रे विषयपुरवरे श्रीवने संस्थितानि / मूर्खाणां बन्धनानि प्रवरमहितले योगिनां सिद्धिदानि चत्वारः षट् तथाष्टौ सह दश वसवश्चैकमेकं क्रमेण // 135 / / एवं षट्त्रिंशद्वर्णभेदैः क्षितितलनिलये योगिनीनां कुलानि पीठे क्षेत्रोपक्षेत्रे विषयपुरवरे पोवने संस्थितानि / मूर्खाणां बन्धनानि प्रवरमहितले योगिनां सिद्धिदानोति / एषां पुनर्भेदाश्चत्वारः शूद्रादयः, षट् शब्दवज्रादयः, तथाष्टौ चचिकादयः, दश क्रोधभेदाः, तयोर्की शब्दादिषु प्रविष्टौ / वसवोऽष्टभेदाः श्वानास्यादयः // 135 / / चत्वारो बुद्धभेदाः खलु पुन ऋतवो बोधिसत्त्वप्रभेदाः क्रोधानां दिकप्रभेदा क्षितितलनिलये प्रेतभेदास्तथाष्टौ / दैत्यानां चाष्टभेदाः फणिभुवनगता योगिना वेदितव्या एकैको विश्वभर्तुस्त्रिभुवननिलये व्यापकः श्रीकुलानाम् // 136 // .एवं चत्वारो बुद्धभेदाः, षड् बोधिसत्त्वप्रभेदाः, 'प्रेतानामष्टभेदाः, क्रोधानां दश, दैत्यानामष्टभेदाः फणिभुवनगता इति षट्त्रिंशद्भेदा योगिनीनां योगिना [230b] वेदितव्याः / एकैको विश्वभर्तुस्त्रिभुवननिलये सप्तत्रिंशत्तमो व्यापकः श्रीकुलानामिति // 136 // पातालेष्वष्टचण्डा दशदिशिवलये क्रोधजा मर्त्यलोके प्रेताख्याः प्रेतलोके सुरवरनिलये शब्दवज्रादिषट्कम् / ब्रह्माण्डे श्रीचतस्रः प्रवरशिवपुरेऽप्येकमाता त्रिधातोविश्वं संहारयन्ति प्रकुपितवदनाः पालयन्त्येव तुष्टाः // 137 // 15 20 1. ग. हट्रिनी, च. भो. हडिनी ( APhyag Pa Mo) / 2. ग. क्रोध""दैत्य " प्रेत-अयं क्रमः / 3. भो. 'योगिनीनां नास्ति / 4. क. ख. ग. च. छ. विश्वमातुः / 5. क. ख. च. छ. भो. शतिमः /