________________ विमलप्रभायां [अभिषेक इदानीं कर्ममुद्राविशुद्धिरुच्यतेमाता चित्तेन चिन्त्या भवति च भगिनी स्पर्शनालिङ्गनेन पुत्री वज्रप्रवेशे सकरणसुरते भागिनेया तथैव / भार्या बिन्दुप्रपाते त्वपरकुलगता योगिनी नष्टरागे एताः षड् योगमुद्राः क्षितिजलहुतभुगवायुखोच्छेदभावाः // 125 // 'मातेत्यादिना। इह सर्वतन्त्रेषु मात्रादिमुद्राः साधारणेनोक्ता योगिनामनु'रागाय। सा च बोधिचित्तस्थिरीकृतानाम्, नान्येषां लोकव्यवहारिका स्त्री / अवस्थाभेदेन मातृकाद्या भवन्ति / इह यदा योगी स्त्रीचिन्तां करोति, तदा चित्तेन चिन्त्या सती माता भवति, भगिनी "स्पर्शन। पुत्री वनप्रवेशेन भवति / सकरणसुरते सति. भागिनेया भवति / भार्या बिन्दुप्रपाते सति / अपरकुलगता चण्डाली योगिनो नष्टरागे सति विरागाद्भवतीति। एताः षड् योगमुद्राः पृथिव्यादयो योगिनीनाम् / इह प्रथम पृथ्वीधातुक्षोभः। एवं तोयतेजोऽनिलाकाशधातूनां क्षोभः। क्षुब्धानां च्यवनम् / अतः क्षितिजलहुतभुगवायुखोच्छेवभावा अवस्थाः षडिति। एवं सव्यावसव्ये पञ्चमण्डलक्षयोऽपि च्यवनकाले वेदितव्यो मात्राविशुद्धयेति। चक्रीकुण्डलकण्ठिकारुचकमेखलाभस्मविशुद्धया मुद्रा योगिनामिति, तथा दानादिषट्पारमिताविशुद्धया इति नियमः // 125 // इदानीं कायादिमुद्रात्रयमुच्यतेअब्जे वज्रप्रवेशः शिखिनि च मरुतो बिन्दुपातस्तृतीय एतद्योगत्रयस्य प्रकटितनियता कायवाक्चित्तमुद्रा। रागारागान्तगाद्या परमगुणनिधिर्योगगम्या चतुर्थी मुद्राणां सा सुमाता भवति दशविधा श्रीगुरोर्वक्त्रमेषा // 126 // [227b] अब्ज इत्यादिना। इह सर्वतन्त्रेषु बाह्ये नेयार्थेन ललाटे कायमुद्रा, कण्ठे वाङ्मुद्रा, हृदये चित्तमुद्रेति / नीतार्थेन पुनः अब्जे वनप्रवेशो वज्रस्य सदोत्थानं कायमुद्रा, शिखिनि च मरुतो मध्यनाड्यां प्राणवायोः प्रवेशो वाङ्मुद्रा। 'बिन्दुपात प्रा / १.क. 'मातेत्यादिना' नास्ति, ग. मात्रे, भो. Sems Kyi Ses Pa La Sogs Pas (चित्तेत्यादिना)। 2. ख. ग. च. छ. •रागणाय / 3. ग. भो. 'अन्येषां' इत्यधिकम् / ४.ख. ग. च. छ. स्पर्शनेन / 5. ग. सत्यविरा०। 6. भो. Thig Le Mi Lhui (बिन्द्वपात)।