________________ T403 पटले, 125-126 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः श्चित्तमुद्रा। एतयोगत्रयस्य मध्यमाश्रितस्य कायवाक्चित्तमुद्रा यथासंख्यं भवन्ति / तदुपरि रागारागान्तगाद्येति। रागः शुक्लपक्षः, तस्यान्तगा; अरागः / कृष्णपक्षः, तस्याद्या। एवं रागारागान्तगाद्या षोडशकला स्थापनीया यावन्न च्यवति तावत् सा परमगुणनिधिरक्षरसुखदायिका / योगगम्या चतुर्थी षडङ्गयोगेन गम्या योगिनाम्, नान्येषाम् / मुद्राणां पूर्वापराणां नवानां सा सुमाता जननी गर्भोत्पादकालादामरणान्तं भवति / दशविधा सा धूमादिभेदेन दानादिपारमिता श्रीगुरोर्वजसत्त्वस्य वक्त्रमेषा ज्ञानवक्त्रं चतुर्थमित्यर्थः / स्वाभाविककायर्मिणी सेति नियमः। एवं शिष्यस्य सेकार्थ मुद्रालक्षणं प्रतिपादयित्वा गणचक्राय नियमं ददाति गुरुः। तत्र षट्त्रिंशत् कुलदेवतीनिमन्त्रयेत् / ततो दिवाकाले कुमारकुमारिकाणां दशकं पायसादिमधुराहारेण भोजयित्वा दक्षिणां दत्त्वा विसर्जयेत् / ततः सप्तघटिकायां 10 भिक्षुभिक्षुणीसङ्घ सन्तर्पयित्वा निरामिषैर्मधुराहारैर्बुद्धप्रमुखं कृत्वा संघाय दक्षिणां दत्त्वा महाघ सङ्घविहारे प्रवेश्य ततो विजने गृहे निश्छिद्रे वीरवीरेश्वरीणां गणचक्र विधानेन स्थानानि विचिन्तयेदिति। . 15 अत्र विभवानुरूपेण नायको गुरुः प्रज्ञोपायात्मको मध्ये, चतुर्दिग्विभागे चतस्रो योगिन्यः / मध्ये डोम्बी, पूर्वे शूद्री, दक्षिणे क्षत्रिणी, उत्तरे ब्राह्मणी, पश्चिमे वेश्येति पञ्चात्मको गणनायकः। आसामासनं नरचर्म श्वचर्म अश्वचर्म *गोचर्म गजचर्मेति / ततो द्वितीयं विदिक्षु ईशाने मूत्रभाण्डम्, वायव्ये विड्भाण्डम्, नैऋत्ये रक्तभाण्डम्, "आग्नेय्यां मज्जाभाण्डमिति / .. ततो द्वितीयपरिमण्डले चित्तचक्रस्थाने पूर्वे कंशकारी, दक्षिणे वेणुनर्तकी, उत्तरे मणिकारी, पश्चिमे रौद्राक्षी, आग्नेय्यां शालिनी, नैऋत्यां शौण्डिनी, ऐशान्यां [228a] हेमकारी, वायव्यां मालाकारीति योगिन्यष्टकम् / आसामासनानि यथासंख्यं मेषचर्म-अरण्याश्वचर्म-उष्ट्रचर्म-'खट्टसिंहचर्म-अजचर्म-हरिणचर्म-खरचर्म-शूकरचर्माणि / - ततस्तृतीयपरिमण्डले वाक्चक्रस्थाने पूर्व खट्टिनी, आग्नेय्यां कुम्भकारी, दक्षिणे कन्दुकी, नैऋत्ये गणिका, पश्चिमे शिबिका, वायव्ये कैवर्ती, उत्तरे नटी, ईशाने रजकीति योगिन्यष्टकम् / आसामासनानि कुम्भीरचर्म, कपर्दक पुञ्जम्, कर्कटास्थिपुञ्जम्, शुष्क मत्स्यम्, मकरचर्म, दर्दुरचर्म, कूर्मकरोटकम्, शङ्ख इति यथासंख्यम् / 25 1. भो. Yan Dag Par mChod Cin ( सम्पूजयि० ) 2. ख. च. छ. भो. महार्घसङ्घ, ग. महासङ्घ / 3. ग. च. भो. "वि' नास्ति / 4. क. 'गोचर्म' नास्ति / 5. क. ख. अग्नेयां। 6 ग. षट, च. खड़, भो. hDam Sen (मण्डूकः ?) / 7. ग. च. भो. खट्टिकी। 8. क. ख. छ. 'इति' नास्ति। ९.च. 'क' नास्ति / 10. छ. मांसं /