________________ पटले, 120-124 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः तथा सर्वाकारो निराकारः षोडशार्धाबिन्दुधृक् / अकल: कलनातीतश्चतुर्थध्यानकोटिधृक् // ( ना. सं. 10.3 ) इति भगवतो नियमः। एवं विवृत्यां पञ्चमपटले महामुद्राज्ञानं विस्तरेण वक्तव्यमिति / तेनात्र न विस्तारितमिति // 121-122 / / / इदानीं षोडशानन्दानां चतुर्योगा उच्यन्तेकामानन्दं करोति प्रथममपि नृणां चक्षुरालोकनेन पश्चात् पूर्णाप्रसङ्गे पुनरपि परमानन्दमेव स्वकाये / ज्वाला बिन्दु [226b] स्रवन्ती रमति च विरमानन्दवज्रेण पञ ओटा बिन्दुत्रयान्तेऽक्षरगतसहजानन्दवज्रं करोति // 123 // 10 कामानन्दस्तु कम्पाक्षरमपि च चतुष्केण योगः स एकः / पूर्णा शक्त्युद्भवो वै भवति च परमानन्द एवं द्वितीयः / ज्वाला बिन्दुश्च घूर्मा पुनरपि विरमानन्द एवं तृतीय ओट्टा नादश्च निद्रा भवति च सहजानन्द एवं चतुर्थः / / 124 // कामेत्यादिना। इह सर्वसत्त्वानां जाग्रत्स्वप्न'सुषुप्ततुर्याभेदेन कायवाक्चित्त- 15 ज्ञानयोगः। ते चानन्दादिभेदेन षोडश / तत्र कामा इति कायानन्दः। आनन्द इति वागानन्दः / कम्पा इति चित्तानन्दः। अक्षरमिति संज्ञया ज्ञानानन्दः / एवं चतुष्केण आनन्दयोग एक इति। तथा पूर्णा इति कायपरमानन्दः। अत्र परमानन्दादि"त्रयोऽन्तादिना वाञ्चित्तज्ञानवजाणि छन्दोवशादिति / अतः परमानन्द इति वाक्परमानन्दः, उद्भव इति चित्तपरमानन्दः, शक्तिरिति ज्ञानपरमानन्दः। इति द्वितीयो योगः। ज्वाला इति कायविरमानन्दः, विरमानन्द इति वाग्विरमानन्दः, 'घूर्मेति चित्तविरमानन्दः, बिन्दुरिति ज्ञानविरमानन्दः / इति तृतीयो योगः। तथा 'मोट्टा इति कायसहजानन्दः, सहजानन्द इति वाक्सहजानन्दः, निद्रेति चित्तसहजानन्दः, नाव इति ज्ञानसहजानन्दः / एवं चतुर्विधः कायः / निर्माणसम्भोगधर्मस्वाभाविकभेदेन वाक् चतुर्धा, तथा चित्तं चतुर्धा, ज्ञानं चतुर्धेति। एवं 30 षोडशानन्दभेदा "विस्तरेण वक्ष्यमाणे वक्तव्याः / इति षोडशान्तं सहजमिति नियमः // [227a] 123-124 // 1. 'कामेत्यादिना' नास्ति / 2. क. ग. प्रसुप्त / 3. च. ग. छ. अक्षर इति / 4. छ. त्रयः कान्ताः / 5. भो. च. घूर्णेति, ग. धूरमेति / 6. क. च. मोदा, ग. भो. ओड्डा / 7. ग. च. वक्ष्यमाणे विस्तरेण /