________________ [अभिषेक 108 विमलप्रभायां संवरं दत्त्वा आचार्यः शिष्याय, शिष्योऽपि गुरुदक्षिणां दत्त्वा पुनर्मण्डलं कृत्वा प्रार्थयेत्-मे भगवान् सेकप्रक्रियाप्रसादं करोतु / ततः शिष्यमामन्त्रयेद् गुरुः। शृणु त्वं पुत्र ! यथा संवृत्या षोडशानन्दलक्षणं सर्वसत्त्वानां सुखं साधारणं द्वाविंशदधिकशतादिवृत्तैरुद्धृतं परमादिबुद्धाद् मञ्जुवज्रेण "कामा क्षोभम्" (का. च. 3.122) इत्यादिभिः // 120 // त्रस्ता विभ्रान्तचित्ता शठपरवशगा व्याधियुक्ता प्रसूता क्रुद्धा स्तब्धाऽथ लोलाऽनृतकलहरता स्वाङ्गहीनाऽविशुद्धा। एताः प्रज्ञाभिषेके सुनिपुणगुरुणा वर्जनीया नरेन्द्र पूर्वोक्ता बुद्धभक्ता गुरुसमयधरा वन्दनीयार्चनीयाः / / 121 // .. [226a] कामा क्षोभं करोति स्वमनसि जगतः पूर्णतां याति पूर्णा पूर्णाज्ज्वाला सबिन्दुं स्रवति शशधरं द्रावयित्वोत्तमाङ्गात् / ओट्टाकृष्टि प्रकृत्या ददति वरसुखं बिन्दुमोक्षत्रयान्ते / आलोकस्पर्शसङ्ग क्षरणसुखमथानन्दभेदादिनेतत् // 122 // 10 20 इह सर्वस्य जगतः कामा मनसि क्षोभं करोति प्रथमानन्दमिति / ततः पूर्णतां याति पूर्णावस्था ललाटे बोधिचित्तपूर्णत्वात्, प्रज्ञालिङ्गनादिना द्वितीयः परमानन्द इति। ततः पूर्णादुत्तमाङ्गाद मैथुने ज्वालावस्था सबिन्दुं स्रवति शशधरं द्रावयित्वा तृतीयं विरमानन्दं करोतीति। अत ओट्टावस्था बिन्दुच्यवनकाले कायवाक्चित्तबिन्दूनामवसाने चतुर्बिन्दुनिर्गमकाले सहजानन्दं करोतीति। एवं प्रतिपदादिपञ्चपञ्च___ कलाभिराकाशवायुतेजउदकपृथिवीस्वरूपाभिनन्दाभद्राजयारिक्तापूर्णानामभिः अ इ ऋ उ ल क्, अ ए अर् ओ अल् र, ह य र व ल डित्येतत् स्वरधर्मिणीभिः / एवं पञ्चमी आनन्दपूर्णा / दशमी परमानन्दपूर्णा / पूर्णिमा विरमानन्द पूर्णा। सहजानन्द इति षोडशी कला सर्वधातूनां समाहारो मेलापकः समाजः संवर इति / एवं रागो बोधिचित्तस्य शुक्लपक्षः, विरागः कृष्णपक्ष इति / यथा नामसंगोत्यां भगवानाह विरागादि महारागो विश्ववर्णोज्ज्वलप्रभः। ___ सम्बुद्धवजपर्यङ्को बुद्धसंगीतिधर्मधृक् // इति / ( ना. सं. 8 33-34) १..ग एकविंशदधि०, छ. द्वात्रिंशदधि०। 2. ख. ग. च.छ. भो. ततः। 3. ग. भो. ओड्डा, च. उड्डा। 4. भो. च। 5. ग. व र ल। 6. छ. इतः परं 'कामानन्दं करोति' इत्यधिकम् / 7. छ. विरमानन्दे /