________________ T402 पटले, 119-120 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः 'सबीजं पश्चाद् देया स्वमुद्रा आचार्येण या आलिङ्गिता। अथवा पुत्रस्य भायां स्वयमाचार्योऽभिगच्छति। ततः सेकक्षणे प्राप्ते शिष्याय पुनः स्वभार्यां समर्पयेत् / अत्र 'प्रज्ञायाःस्तनस्पर्शनमुपायः करोति,गुरोः(रु.) शिष्यभार्यायाः स्तनं स्पृशेत् कलशाभिषेके / गुह्याभिषेके शिष्यभार्याया मुखे वजं क्षिपेत् / शिष्यस्य अक्षि बद्ध्वा गुरुः प्रज्ञाया नरनासिकां चूषयेत् / ततो भार्याज्ञानेन स्वमुद्रां समर्पयेदाचार्य इति सर्वत्र सेकविधिमहाधिपत्ये / "यदि दश मुद्राः, तदा यां यां कामयितुं समर्थः शिष्यस्तां तां समर्पयेद् / अर्धरात्राद् घटिकाद्वयोवं या[225b]वत् सूर्योदयम्, ततो विसर्जयेद् गणचक्रम् / विसर्जयित्वा शिष्याय संवरं दद्यात् / इदं यन्मया कथितं संवृत्या विरमान्तं सहजक्षणं यद्विन्दुत्रयान्तं तद्विवृत्या न भवति / विवृत्या अच्युतं सुखं योगिनाम् / तेनेदं त्वया महासुखं रक्षणीयम् / तथा आदिबुद्धे भगवान् - कर्ममुद्राप्रसङ्गेऽपि ज्ञानमुद्राऽनुरागणे / रक्षणीयं महासौख्यं बोधिचित्तं दृढव्रतैः॥ भगे लिङ्गं प्रतिष्ठाप्य बोधिचित्तं न चोत्सृजेत् / भावयेद् बुद्धबिम्बं तु धातुकमशेषतः / / अनेन रक्षितेनैव बुद्धत्वमिह जन्मनि / शील संभारसंपूर्ण पुण्यज्ञानसमन्वितम् // दशपारमिताप्राप्ताः सम्बुद्धास्त्र्यध्ववर्तिनः। अनेन सर्वसम्बुद्धधर्मचक्र प्रवर्तितम् / / अतः परतरं नास्ति ज्ञानं त्रैधातुकेश्वरम् / शून्यताकरुणाभिन्नं स्वपरार्थप्रसिद्धये // यदि पालयसि मे पुत्र संवरं सर्वतायिनाम् / तदा लप्स्यसि सम्बोधिं सर्वबुद्धरधिष्ठितः॥ अथ रागाभिभूतात्मा न पालयसि संवरम् / गृहीत्वा पुरतो भर्तुस्तदा यास्यसि रौरवम् // मृदुचित्ताद् यदा योनौ बोधिचित्तं च्युतं भवेत् / पद्मबाह्यं तदा ग्राह्यं ज्ञात्वा मुद्रां स्वजिह्वया // इति / 1 क. ख. छ. सवीयं / 2. क. ख. छ. प्रज्ञया / 3. क. ख. छ. भायां करोति, ग. शिष्ये, ग. च. भायाँ / 4. भो. De Nas Ses Rab Ye Ses Kyi dBan Gi Ched Du sLob dPon Gyis Ran Gi Chun Ma Phyag rGyar gTad Par Byaho Ses Pa Ni ततो प्रज्ञाज्ञानाभिषेके स्वभार्यां मुद्रां समर्पयेत्, आचार्य इति / 5. ग. यदा / 6. भो. Don Dam Par ( तत्परमार्थतः ) / 7. ग. अक्षतं / ८.ग. च. भो. भगवानाह / ९.क. संभार।