________________ विमलप्रभायां / [अभिषेक दशानां मध्ये तया साधं ममाध्येषणां कुरु। भिक्षुश्रामणेराणां चण्डाली 'स्वभार्या कर्तव्या। ततो गुरुनियमेन तां गृहीत्वा कनकादिकुसुमैमण्डलं कुर्वतो वे ततोऽध्येषयत: नमस्ते कालचक्राय सर्वावरणहानये / परमाक्षरसुखापूर्ण ज्ञानकाय नमोऽस्तु ते // शून्यताकरुणाभिन्नं बोधिचित्तं यदक्षरम्। . तेन सेकेन मे नाथ प्रसादं कुरु साम्प्रतम् // पुत्रदारादिभिः साधं दासोऽहं तव सर्वदा। आबोधिमण्डपर्यन्तं नान्योऽस्ति शरणं मम // इत्यध्येषितवन्तं सपत्नीकं शिष्यं दृष्ट्वा आचार्यः शब्दवज्रां सर्वालङ्कारानपसार्य नग्नीकृत्यालिङ्गयति / गृहिणस्तु भार्याया मातरम्। ततः-पूर्वे तारा, दक्षिणे पाण्डरा, उत्तरे मामकी, पश्चिमे लोचना, आ[225a]ग्नेय्यां स्पर्शवना, नैऋत्ये रसवना, ईशाने रूपवना, वायव्ये गन्धवजा इति / योगिनीचक्रं नग्नं मुक्तकेशं कतिकाकपालहस्तं विरचयेत्, नवविद्याभिर्यथानुक्रमेणेति / एवं पूर्वाभिषेकस्तोयादिना सप्तविधः। तत उत्तराभिषेकः। सामान्यकर्ममुद्रया उत्तरोत्तराभिषेकः पूर्वोक्ताभिः शूद्रजादिभिः। मुद्रासमर्पणाय दशभिर्नागैरष्टभिर्घटेर्जयविजयाभ्यां स्नापयेद् भिक्षुम् / श्रामणेरं तासां मध्ये षड्भिर्मुद्राभिश्चतुभिः कलशैः स्नापयेत्, जयविजयाभ्यामपि / गृहस्थं तासां नवानां मध्ये एकया स्वभार्यया, एकेन विजयघटेनाभिषेचयेत् पूर्वोक्तविधिना / ततो मुद्रां समर्पयेत् कलशसेकदानार्थमिति // 119 // . सर्वालङ्कारयुक्तां द्रुतकनकनिभा द्वादशाब्दां सुकन्यां प्रज्ञोपायात्मकेन स्वकुलिशमणिना कामयित्वा सरागाम् / ज्ञात्वा शिष्यस्य शुद्धिं कुलिशमपि मुखे क्षेपयित्वा सबीजं पश्चाद् देया स्वमुद्रा त्वथ पुनरपरा धूममार्गादियुक्ता // 120 // ___ अत्र सर्वालङ्कारयुक्तां द्रुतकनकनिभां द्वादशाब्दां सुकन्यां विंशतिवर्षपर्यन्तां प्रज्ञोपायात्मकेन देवतायोगेन वक्ष्यमाणेन स्वकुलिशमणिना कामयित्वा "सरागां रजस्वलाम् / ज्ञात्वा शिष्यस्य 'शुद्धिम् उत्तरोत्तराभिषेके / कुलिशमपि मुखे क्षेपयित्वा 1. क. ख. स्वभावा। 2. ख. च. भो. यथाक्रमेण / 3. ग. जातिभिः / 4. क. ख. कलशे / 5. भो. Khrag IDan ( सरक्तां)। 6. छ. शुद्धिः।।