________________ पटले, 198-119 श्लो.] प्रतिष्ठागणचक्रविषियोगचर्यामहोद्देशः भागिनेया दुहित्री च भगिनी. जननी तथा। भार्याया जननी चैव मातुलस्य तथाङ्गना // पितृभ्रातस्तथा भार्या भगिनी जनकस्य तु। स्वमातुर्भगिनी चैव स्वभार्या वररूपिणी // ताराद्या धर्मधात्वन्ता दशविद्याः[224b]स्वगोत्रजाः। सेककाले प्रदातव्या गृहिणा मोक्षकाक्षिणा // न ददाति गुरोविद्या यद्येताः कुलरक्षणात् / तदा सेको न दातव्यः अन्याभिर्गृहवासिनाम् // मण्डलेष्वभिषिक्ताभिरन्याभिः शूद्र'जातिभिः / भिक्षणां श्रामणेराणां दातव्यो गुरुणा नृप / वाय्वाद्यास्तु क्रमात् शूद्री क्षत्रिणी ब्राह्मणी तथा। वेश्या डोम्बी च कैवर्ती नटिका रजकी तथा // चर्मकारी च चाण्डाली धर्मधात्वन्त्यजा दश। महाविद्याः समाख्याता भुक्तिमुक्तिफलप्रदाः // इति / एवमुक्तक्रमेण दश पारमिता दश वशिता दश भूमीर्दश बलान्याभिविशुद्धानि भवन्ति / 'तथाह नामसंगीत्यां धर्मधातुस्तवे भगवान् महावैरोचनो बुद्धो महामौनी महामुनिः। महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः // दशपारमिताप्राप्तो दशपारमिताश्रयः। दशपारमिताशुद्धिर्दशपारमितानयः // दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः / दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् / / दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो' विभुः / अशेषविश्वार्थकरो दशाकारो वशी महान् // इति / (ना. सं. 6. 1-4) "अधिपतिकरणाय दश मुद्रा देयाः। महामण्डलाचार्यपदाभिलाषिणेति तथागत. नियमः। एवं दश मुद्राः समर्पयित्वा शिष्यो गुरोस्तत आदेशं प्रार्थयति / इदानीं मया कि कर्तव्यं हे भगवन् सर्वपारमिताप्राप्त ! तत आचार्यो ब्रूते-इमां स्वकीयां भार्यां 15 25 1. च. जादि / 2. क. छ. 'ब्राह्मणी' नास्ति / 3. ख. ग. छ. भूमिभिः, क. भूमि / 4. ग. च. तथा। 5. ग. च. भगवानाह / 6. क. ख. ग. च. दलो। 7. ग. च. आधिपत्य / ८.ग. च. प्राप्ता /