________________ T401 104 -- विमलप्रभायां [अभिषेकवज्रशृङ्खला रौद्राक्षीति दशक्रोधदेव्यः। यत एकत्रिंशद्वर्षादष्टौ भूतांशाः-चर्चिका वाराहो रौद्री ऐन्द्री ब्रह्माणी महालक्ष्मी कौमारी वैष्णवीति / तत एकोनचत्वारिंशद्वर्षादष्टौ असुरांशाः-श्वानास्या शूकरास्या व्याघ्रास्या जम्बुकास्या गरुडास्या उलूकास्या गृध्रास्या काकास्येति / षट्चत्वारिंशद्वर्षाणि यावन्मुद्रा भावनार्थम् / सेकार्थ पुनः षट्चतस्रः समसुखफलदाः। तेजोधातुमारभ्य यावद् धर्मधातुरिति / वायुधातुररजस्त्वान्न ग्राह्येति नियमः // 118 // [ 224a ] श्रीप्रज्ञास्पर्शनीयं प्रथममपि कुचे कुम्भसेकः स एव गुह्याद् गुह्याभिषेको भवति शशधरास्वादनालोकनाभ्याम् / प्रज्ञाज्ञानाभिषेके सकलजिनकुलैः शोधयित्वाऽङ्गवक्त्रेर्मुद्रा शिष्याय देया जिनमपि गुरुणा साक्षिणं चात्र कृत्वा // 119 // इह उत्तराभिषेको द्विधा-एकः सत्त्वावतारणार्थ मार्गपरिज्ञानाय तन्त्रश्रुताधिकारायेति, अपरो महाचार्यपददानाय देशककरणायेति। अत्र पूर्वाभिषेके तावत्-"वस्ता विभ्रान्तचित्ता" (का. च. 3.121) आदिदोषरहिता द्वादशाब्दादिसुकन्या "परियाचिता शिष्येण गुरोः समर्पणीया। ततोऽध्येषणादिकं कृत्वा. शिष्यो गुरुमध्येषयति वक्ष्यमाणस्तुत्या। ततस्तुष्टो गुरु र्लोकसंवृत्या स्तन स्पर्श कारयति : स्वमुद्रायाः। तेन कलशाभिषेकः स एव / ततो गुह्यपूजां कृत्वा शिष्यायामृतं ददाति / मुद्राभगं चालोकापयति / तेन गुह्याभिषेको भवति शशधरास्वादनालोकनाभ्याम् / ततः प्रज्ञाज्ञानाभिषेके पञ्चकुलकलापिनीं कृत्वा ॐकारादिबीजे., ततो मुद्रा सा -शिष्याय देया पाणिव्याप्तिद्वन्द्वकरणाय च गुरुणा। जिनं वज्रसत्त्वं साक्षिणं कृत्वा / यथायं दुर्भगः सत्त्वः, अस्याधिकाराय भावनादिके तन्त्रश्रवणाय, न शिष्याणां तन्त्रदेशनाय मण्डलालेखनायेति प्रथमं शिष्यावतारणेऽभिषेकनियमः। तथाऽऽहहसितेनाचार्यो द्विगुणात्मकः शुक्रसुखेन देवविशुद्धया गुह्य इति(ती)क्षणेन त्रिगुणात्मकविशुद्धया, पाणिव्याप्तिरिति चतुर्गुणात्मकविशुद्धया, द्वन्द्वमिति पञ्चगुणात्मकशुक्रसुखेन देवविशुद्धयेत्यादि पञ्चमे पटले वक्ष्यमाणे परमाक्षरज्ञानसिद्धौ "वक्तव्यम् / इति 'लोकसंवृत्या सत्त्वावतारणाय चतुर्विधोऽभिषेकनियमः। ततः सर्वतन्त्रे श्रुते ज्ञाते सटीके महाधिपतित्वाय यथानुक्रमेणोक्ता दशविद्याः समर्पणीया गृहस्थशिष्येण गुरवे / अत्र मूलमन्त्रे भगवानाह 1. भो. Drug Dan gSum (षट् च तिस्रः)। 2. क. ख. ग. छ. घातुरज० / 3. ग. तावतस्तत्रा, च. तावत्तत्रा। 4. क. भो. परिपाचिता। 5. च. लोकवृत्त्या / 6. ग. च. स्पर्शनं / 7. भो. Sems Can rNam La ( सत्त्वानां)। 8. ग. च. भो. 'आह' नास्ति / 9. भो. 'देव' नास्ति / 10. ग. देवता, भो. नास्ति / 11. क, ख.छ. वक्तव्यः / 12. ग. च. लौकिक /