________________ 10 पटले, 110-118 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः 103 होमान्ते वापिकादी वरुणमपि सितं पाशहस्तं विभाव्य उद्याने कल्पवृक्षं सकलतरुगतं सेकयित्वैकवृक्षम् // 116 // मौलि पट्टं च हारं कटकमपि तथा कुण्डलं मेखलादिमाचार्याय प्रदेयं भवति नरपते दक्षिणां चात्मशक्त्या / दात्रा वै पुण्यहेतोः सकलगणकुलं प्रार्थनीयं परार्थ पुण्येनानेन सत्त्वास्त्रिविधभवगताऽनुत्तरां यान्तु बोधिम् // 117 // इह प्रतिमादीनां प्रतिष्ठा / "ऊर्श्वे दत्त्वा वितानं क्षितितलनिलये च त्रिरेखं समन्तात्" इत्यादिकं (3.106) वृत्तमारभ्य द्वादशवृत्तानि सुबोधानि / यावत् प्रणिधानं शिष्यः 'पुण्यपरिणामनां करोति। "पुण्येनानेन सत्वास्त्रिविध भवगताऽनुत्तरां यान्तु बोधिम्" ( 3.117 ) इति पर्यन्तं सुबोधं प्रतिष्ठाविधानम् / तेनात्र टीका न कृतेति // 106-117 // इदानीमुत्तराभिषेकविधानमुच्यतेदिग्वषं यावदेका भवति दशविधा दर्शनस्पर्शनीया तस्मादालिङ्गनीयाः सरसजलधयः सेवनीयाश्च लाद्याः / विंशद्वर्षोर्ध्वमुद्रा परमभयकराः क्रोधभूताऽसुरांशाः सेकार्थ षट्चतस्रः शमसुखफलदाश्चापरा भावनार्थम् // 118 // [223b] दिग्वर्षमित्यादिना। इह कलशाभिषेकार्थं मुद्रां दिग्वर्ष दशवर्ष यावद वर्जयेत् कुमारिकाम् / यत एका प्रज्ञापारमिता दशविधा भवति / दानादिविशुद्धया प्रतिवार्षिका। अत्रापि यावद् दन्तपातो न भवति तावज्ज्ञानधातुरव्ययत्वात्, ततो दन्तपातादाकाशधातुः। एवं धातुद्वयेन कुमारिका अक्षतयोनिः / सा तेन दर्शनीया स्पर्शनीया पूजनीयेति / तस्माद् दशवर्षादेकादशवर्षमादिं कृत्वा यावद्विशतिवर्षाणि आलिङ्गनीयाः सरसजलधय इति षड्भिः सह चतस्रः सेवनीयाश्च लाद्या वाय्वादय इति / अतो वायुधातुरेकादशे वर्षे, द्वादशे तेजः, त्रयोदशे तोयम्, चतुर्दशे पृथिवीति चतस्रः। पञ्चदशे शब्दः, षोडशे स्पर्शः, सप्तदशे रसः, अष्टादशे रूपम्, एकोन- विंशतिमे गन्धः, विंशतिमे धर्मधातुरिति। ततो विशतिवर्षादूवं मुद्रा परमभयकरा क्रोधभूताऽसुरांशा इति / इह विंशतिवर्षादेकविंशतिवर्षमारभ्य प्रत्येकवार्षिका यथासंख्यम्-अतिनीला अतिबला' 'जम्भी मानी स्तम्भी "मारीचो ‘चुन्दा भृकुटी 1. भो. 'पुण्य' नास्ति / 2. क. छ. भगवता / 3. ग. च. यदेका। 4. च. या चेति / 5. छ. वेला। 6. क.ख. छ. यम्भो / ७.क. ख. छ. मारेची। 8. क. चुण्डा / 25