________________ 102 विमलप्रभायां [ अभिषेकएवं वै भावनीयाः पुनरपि सकला देवतायाश्च काये आकृष्य ज्ञानसत्त्वं त्रिभवभवसमं क्रोधराजैः स्वकाये / वेशं बन्धं च तोषं समरसकरणं देवतायाश्च कुर्याद् आचार्येणैव तस्मात् प्रकटितवदना देवता वन्दनीया // 110 // यद्वीजं ह्यादिकाद्योः स्वकुलगुणगतं देवतादेवतीनां हृन्मध्ये तत्स्वबीजं शशिरविपुटगं कायवाक्चित्तयुक्तम् / द्वात्रिंशल्लक्षणाद्यैः सकलतनुगतैर्व्यजनैः खाष्टभिश्च वर्णभिन्नं तदेव प्रकटदलदले पुस्तकानां च भाव्यम् // 111 // श्रीचक्रं चैत्यगर्भे पविमणिकमलं चासिरेवोत्तरेण .. . हूंकारं ह्यक्षसूत्रे मणिपरिगणनालक्षणं व्यञ्जनानि / घण्टा काये स्वराश्च त्रिगुणितदशकाः कादिवर्गाश्च वजे ते वै यज्ञोपवीते दशगुणितवसुव्यञ्जनान्युत्तरीणाम् // 112 // काद्या वर्गाः समात्रा गगनरसगुणा योगपट्टस्य भाव्या हं हः श्रीकुण्डलस्य अं अः इति युगलं कण्ठिकामेखलायाम्। एवं चाकारयुग्मं भवति कटकयोर्नू पुराणां ह हा च पञ्चाकारं हि शून्यं सकलतनुगतं भस्मनो भावनीयम् // 113 // [223a] ज्ञानाकारात् स्वदेहात् त्रिकुलिशसहितं स्कन्धधात्वादिसर्व भ्यस्तव्यं देवतानां स्वहृदयकमले स्वस्वबीजैः क्रमेण / बीजे न्यस्ते प्रतिष्ठा भवति नरपते स्तूपलेपादिकानां बीजावेशं स्वकाये कुरु करकुलिशेनोपसंहारकाले // 114 // आदर्श स्नानमत्र प्रथममपि भवेच्चित्रितानां पटानां पश्चाद् गन्धैः सुसुरभिकुसुमैर्देवताऽभ्यर्चनीया। गीतैर्वाद्यैश्च नृत्यैवरविविधपटैश्चामरेरातपत्ररेवं कृत्वा प्रतिष्ठां वरविविधरसैः संघभोज्यं प्रदेयम् // 115 // कूपे वाप्यां तडागे दिशि विदिशि वसून् विन्यसेन्नागराजान् सप्ताम्भोधि: स्वबीजैर्मधुसलिलयुतं क्षेपयेत् पञ्चगव्यम् /