________________ पटले, 105-109 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः 101 वज्राचार्य इति / तथा भगवानाह नामसंगीत्याम् शिखी शिखण्डो 'जटिलो जटो मौण्डी किरीटवान् / पञ्चाननः पञ्चशिखः पञ्च चीरकशेखरः / (ना. सं. 8. 17) इति भगवतः सर्व तन्त्रेषु नियमः। इह देशकाभिषेकेऽभिषिक्तेन भिक्षुणा वा श्रामणेरेण वा गृहस्थेन वा सेवादिधर्मो गृहधर्मो न करणीयोऽसिमसिवाणिज्यादिकः / यदि करोति तदा आज्ञाभङ्गो भवति, आज्ञाभङ्गादवीचिगमनं भवति, आचार्यधर्मविलोपनादिति वज्राचार्याधिपत्य भिषेकविधिप्रतिष्ठानियमः // 105 // ऊर्ध्वं दत्त्वा वितानं क्षितितल निलये वै त्रिरेखं समन्तात् तासां कोणे सतोया मणिकनकघटाः सूत्रिताः पद्मवक्त्राः / शङ्खाये हेमपात्रे त्वथ रजतमये साधयेद् गन्धतोयं गर्भे .पीठं प्रदाय स्फुटकनकमयं स्नानमारम्भयेत् तत् // 106 // पुष्पाद्यैर्गन्धतेले रविशिखिपचितैर्देवताभ्यङ्गनीया चूर्णरुद्वर्तयित्वा मधुघृतदधिभिः स्नापयेत् भीरतोयः / सिद्धार्थेश्च प्रदीपैर्वरविविधफलैरत्र निर्मञ्छयित्वा तत्स्थानाच्चालनीया तनुरपि पिहिता रक्तवस्त्रेण सम्यक् // 107 // [ 222b] कृत्वा श्रीमण्डलान्ते सममहिनिलये पञ्चरेखा जिनांशैमध्ये पद्माष्टपत्रं स्वकुलदिशिगतैर्भूषितं पञ्चचिह्नः / तन्मध्ये स्थापनीयाऽपरमुखकमला देवता देवती वा चैत्याचं पुस्तकं वा पट इति च तथा संमुखस्तस्य मन्त्री // 108 // कृत्वा शून्यस्वभावं जिनवरसहितं कायवाक्चित्तवज्रं पश्चात् पूर्वोक्तयोगैः शशिरविपविजं भावयेत् कालचक्रम् / विद्या देव्यादिबुद्धानलिकलिकुलजान् स्वस्वबीजैश्च जातान् हृत्कण्ठे नाभिगुह्ये शिरसि कुलवशाद् भावयेन्मूनि चक्रे // 109 / / 1. छ. 'जटिलो जटी मौण्डी' नास्ति / 2. छ. चीरखकेकरः। 3. ख. ग. च. छ. भो. तन्त्रान्तरेषु / 4. ग. च. पतिषेक / 20