________________ विमलप्रभायां [ अभिषेकशुद्धे सत्त्वे प्रदोषाद् रविरपि समये लब्धके त्यागतोऽन्या सर्वस्त्रीणां जुगुप्सा खलु भवति मनुर्वज्रयाने स्थितानाम् / / 103 / / स्कन्धक्लेशावहीत्यष्टमी। स्कन्धक्लेशादि रूपवासः संन्यस्तादि शरीर'छेदनादिकमुच्यते। तस्मादष्टमी भवति / पुनरपि नवमी शुद्धधर्मे शून्यताधर्मेऽरुचिर्या भवति / मायामैत्री च मुखतोऽन्यद् वाक्यमिष्टम् / हृदयेऽन्या चिन्तेति / मायामैत्री या सा दिगिति दशमो। नामादिरहितसुखदे तथागततत्त्वे कल्पना या सा रुद्रेति एकादशी। शुद्धे सत्त्वे योगिनीप्रदोषाद रविरिति द्वादशी भवति। समये लब्धे सति त्यागतो गणचक्रेऽन्या त्रयोदशी भवति / सर्वस्त्रीणां जुगुप्सा या सा मनुरिति चतुर्दशी। खलु निश्चिता भवतीति नियमः। केषाम् ? वज्रयाने स्थितानाम् अभिषिक्तानामिति नियमः। वज्रधरस्य स्थूलापत्तयोऽनेकास्तासां स्वल्पदण्डो भवतीति . नियमः // 103 // इति मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभा[221a]यां मण्डलाभिषेकमहोद्देशश्चतुर्थः // 4 // 10 5. प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः कृत्वा प्रतिष्ठां ससुरासुरेन्द्रों वन्दितो नागनरेन्द्रवृन्दैः / तं कालचक्रं प्रणिपत्य मूर्ना वक्ष्ये प्रतिष्ठां प्रतिमादिकानाम् // इह श्रीपरमादिबुद्धात् प्रतिष्ठाविधिर्म श्रिया चतुरधिकशतादिवृत्तैरुद्धृतटीकया वितन्यते नागैः राजश्चतुभिर्मणिकनकघटैर्मृण्मयैर्वा सरत्नरोषध्या गन्धयुक्तैर्जयविजयघटैः स्नापयेत् पीठमध्ये / नागैः श्रीमोलिबद्धे वसुदलकमले पट्टबद्धे चतुभिमुंद्रायां श्रीघटेनात्र कमलरहितं पञ्चरेखां विहाय // 104 / / नागैरित्यादिना / इह प्रथमं वक्ष्यमाणैः कलशादिभिरभिषेकैरभिषिच्य" ततो ज्ञातसर्वतन्त्रः शिष्यो गुरुणाऽभिषेचनीयो वज्राचार्या ऽधिपतये प्रतिज्ञारूढः। इदानीं 25 '१.ग. छेदादि० / 2. भो. rNal hByor Pa (योगी)। 3. ख. समयेऽलब्धे / ४.ग.प. रित्यादि / 5. क.ख.छ.भिषेच्य। ६.क. ख. छ चार्यो।'