________________ 27 पटले, 101-103 श्लो.] मण्डलाभिषेकमहोद्देशः इदानीं मूलापत्तय उच्यन्तेमूलापत्तिः सुतानां भवति शशधरा श्रीगुरोश्चित्तखेदात् तस्याज्ञालङ्घनेऽन्या भवति खलु तथा भ्रातृकोपात् तृतीया / मैत्रीत्यागाच्चतुर्थी भवति पुनरिषुर्बोधिचित्तप्रणाशात् षष्ठी सिद्धान्तनिन्दा गिरिरपि च नरेऽपाचिते गुह्यदानात् // 102 // 5 10 . मूलापत्तिरित्यादिना / इह सर्वतन्त्रेषु मूलापत्तयश्चतुर्दश / तेषु प्रत्येकं भवति यथा तथाह-मूलापत्तिः सुतानाम् अभिषिक्तानां शिष्याणां भवलि शशधरेति प्रथमा श्रीगुरोश्चित्तखेदादिति। अत्र गुरुद्विधा सद्गुरुः, असद्गुरुश्चेति / तयोश्चित्तखेदाद् द्विधा परार्थतः स्वार्थतश्चेति / तत्र यस्य परार्थतश्चित्तखेदः स श्रीगरुः। यस्य स्वार्थतः चित्तखेदः सोऽसद्गुरुरिति / अत्र श्रीगुरोश्चित्तखेदो दशाकुशल प्रवृत्त्या शिष्यस्य भवति। तस्माच्चित्तखेदान्मूलापत्तिर्भवति, न स्वार्थप्रवृत्तस्य गुरोर्दशाकुशल- प्रवृत्तेरिति नियमः। तस्याज्ञालङ्घनेऽन्या द्वितीया मूलापत्तिर्भवति गुगेः। परोक्षेऽपि दशाकुशलं कुर्वत इति / एवं भ्रातृकोपात् तृतीया भवति / यदा ज्येष्ठे वा कनिष्ठे वा वज्रभ्रातरि शिक्ष्यमाणे प्रकोपं करोति / मैत्रीत्यागाच्चतुर्थीति। इह मैत्रीत्यागश्चतुःप्रकारः, मृदुमध्याधिमात्रा धिमात्राधिमात्रभेदेन / तत्र मृदुर्जले दण्डरेखावत् मैत्रीत्यागः क्षणमात्रं ततो निवर्तयति। मध्यमो बालुकारेखावद् 'वातेन पुनः समत्वं याति / अधिमात्रात्मको भूमिस्फुटितवद् वर्षोदकेन पुनः समत्वं याति। ततोऽमैत्रीचित्तम् अधि[ 220b]मात्राधिमात्रात्मकं परिपक्वं यथा पाषाणभिन्नः पुनर्न क्वचित् संपूर्णः समरसो भवति, यथा वा पक्वफलं न वृक्षे तिष्ठति। 'तद्वन्मैत्रीत्यागः सत्त्वानाम् / तेन चतुर्थी मूलापत्तिर्भवतीति नियमः। इषुरिति पञ्चमी भवति। बोधिचित्तप्रणाशाविति। इह बोधिचित्तं शुक्रम् , तस्य विनाशाद् अच्युतसुखं न भवति। 'यतोऽतत्त्विनां द्वीन्द्रियसुखेन बुद्धत्वकाक्षिणां पञ्चमी मूलापत्तिर्भवति / षष्ठी सिद्धान्तनिन्दा। सिद्धान्तं प्रज्ञापारमितानयं° मन्त्रनये तत्त्वपटलम्, तस्य ११निन्दा या सा षष्ठीति / गिरिरिति सप्तमो भवति / १२अपाचिते नरे श्रावकमार्गस्थिते गुह्यदानाद महासूखदानाद् आचार्याणामापत्तिः / 102 // 15 20 स्कन्धक्लेशादहिः स्यात् पुनरपि नवमी शुद्धधर्मेऽरुचिर्या मायामैत्री च नामादिरहितसुखदे कल्पना दिक् च रुद्रा। 1. च. अतः / 2. च. कुशलस्य / 3. छ. तस्यालङ्घ० / 4. च. कोपम् / 5. क. ख छ. - 'अधिमात्र' नास्ति / 6. क. ख. तेन / 7. ग. तथाऽ। 8. क. ख. छ. तन्मैत्रीत्यागः / 9. ग. अतो, च. ततो / 10. ग. च. यानं / 11. ग. भो. निन्दया सा, क. ख. निन्दाया। 12. क. ख. ग. च. अयाचिते, छ. अपचिते, 13. ग. ०पत्तिरिति /