________________ 5 . विमलप्रभायां [अभिषेकभूमीश्वरत्वं व्रजति। अथ दशाकुशलरहितो म्रियते, तदा तस्मात् शुभवशात् सप्तभूमीश्वरत्वं व्रजतीति नियमः। पुण्यसंभारेण भूयोऽवैवर्तिकाद्यां प्रविशति नियतं कुम्भगुह्याभिषिक्त इति / इह कुम्भ'गुह्याभ्याम[219b]भिषिक्तः सन् शीलवशाद् अवैवर्तिकामचलां व्रजति। आदिशब्देन साधुमतीं व्रजति। अचला बोधिचित्तस्याच्यवनम् / योनिमन्थाने साधुमती महासुखचित्तम् / इह प्रज्ञाज्ञानाभिषिक्तः शीलसंभारबलेन भवभयमथनं मञ्जघोषत्वमेति / धर्ममेघां व्रजति। धर्ममेघा महासखवष्टिः स्वार्थपरार्थकारिणीति नियमः। एवं पुण्यशीलसंभारपूर्वंगमो ज्ञानसंभारः। ततो द्वादशभूम्यां बुद्धत्वं योगिनामिति तथागतनियमः। अथ मूलापत्ति वक्ष्यमाणां शठवशाद् दशाकुशलप्रवृत्तिवशात्, तदा नारकं दुःखमेतत् समस्तं सेकादिकं भवति, विपर्यासवशादिति नियमः // 10 // इदानीं मूला पत्तिविशुद्धिरुच्यतेमूलापत्तेविशुद्धिर्भवति हि गुणिनः सप्तसेके स्थितस्य कुम्भे गुह्ये कदाचिद् व्रतनियमवशादुत्तरे नास्ति शुद्धिः / मूलापत्ति गतो यो विशति पुनरिदं मण्डलं शुद्धिहेतोराज्ञां लब्ध्वा हि भूयो व्रजति गणकुले ज्येष्ठनामा लघुत्वम् // 101 // मूलापत्तेरित्यादिना। इह यदा वक्ष्यमाणा मूलापत्तिर्भवति, तदा सप्ताभिषेके स्थितस्य मन्त्रजापैः षट्त्रिंशद्भिः सहस्रैः "शुद्धिर्भवति / गुणिनः पश्चादकरणसम्बरे स्थितस्येति / कुम्भे गुह्ये स्थितस्याभिषिक्तस्य यदा मूलापत्तिर्भवति, तदा कदाचिद् व्रतनियमवशात् पुण्यशोलसंभारवशात् 'शुद्धिर्भवति / तत्रैवाचार्येण दण्डो देयो व्रतनियमेनेति / उत्तरे नास्ति शुद्धिरिति। प्रज्ञाज्ञानाभिषिक्तस्य यदा मूलापत्तिर्भवति, तदा शुद्धिर्नास्तीति। कोऽर्थः ? अत्राचार्येणास्य दण्डो न देयः, पुण्यशीलबलेन स्वत आत्मनः पापदेशनादिकं कृत्वा बुद्धबोधिसत्त्वानां साधिष्ठानं गत्वा आत्मनाऽशुद्धि नं यततीति मतं बुद्धानामिति। मूलापत्ति गतो यो विशति पुनरिदं मण्डलं शुद्धिहेतोरिति / इह सप्ताभिषेके स्थितः कुम्भे गुह्ये वा स्थि[ 220a ]तो मूलापत्ति व्रजति यदा, तदा तस्य शुद्धिहेतोरिदं मण्डलं वर्तयित्वा पुनर्मण्डलप्रवेशादिकं करोति / पुनरकरणायेति / तत्राज्ञां लब्ध्वा हि भूयो व्रजति गणकुले गोत्रमध्ये यः प्राग् ज्येष्ठनामा स लघुत्वं व्रजति कनिष्ठो भवतीति पुनरकरणसंवराय तथागतनियमः शिष्यैरवश्यं कर्तव्यः॥१०१॥ T 399 S 1. च. गुह्याभिषि०। 2. ग. 'महा' नास्ति / 3. च. पत्तेवि.। 4. च. 'यदा' नास्ति / 5. च. विशुद्धि०। 6. ग. च. भो. विशुद्धि / 7. भो. De La ( तत्र ) / 8. ग. भो. ०धिष्ठानस्थानं / 9. क. ख, न पततीति, नयतीति शोभन पाठः, भो. hThob Bo (प्राप्नोति ) / 10. क. ख. ग. छ. ततोऽनुज्ञां /