________________ पटले, 98-100 श्लो.] मण्डलाभिषेकमहोद्देशः पुण्यशीलसंभाराभ्यां ज्ञानसंभारः। एवं संभारत्रयेण सम्यक्संबुद्धत्वं ते' भवति हे कुलपुत्र नान्यथा / अनन्तकल्पैर्यज्जिनरुक्तमिति विशुद्धधर्मदेशना नियमः / इह सर्वतन्त्रेषु // 98 // इदानीं सेकविशुद्धिरुच्यतेतोयं तारादिदेव्यो मुकुट इह जिनाः शक्तयो वीरपट्टो वज्र घण्टार्कचन्द्रो व्रतमपि विषया नाम मैत्र्यादियोगः / आज्ञा संबोधिलक्ष्मीर्भवभयमथनी कालचक्रानुविद्धा एते सप्ताभिषेकाः कलुषमलहरा मण्डले संप्रदेयाः // 19 // [2192] 10 तोयं तारादिदेव्य इत्यादिना। इह तोयाभिषेको यः स वाय्वादिपञ्चधातुविशुद्धिनिरावरणतेति / एवं मुकुटाभिषेको विज्ञानादिपञ्चस्कन्धविशुद्धिः। वीरपट्टाभिषेको दानादयो दश शक्तयः पारमितापरिपूरणायेति / बचं वज्रघण्टाभिषेको ललनारसनाविशुद्धिः, * चन्द्रादित्यनिरावरणतेति / व्रताभिषेको रूपादिविषयचक्षुरादीन्द्रियविशुद्धिः, दिव्यचक्षुरादिप्रवृत्तिरिति / नामाभिषेको मैयादियोगश्चतुर्ब्रह्म विहारेण सर्वकालं रागद्वेषादिविशुद्धिः, निरावरणतेति / माजाभिषेकः सम्बोधिलक्ष्मीधर्मचक्रप्रवर्तने धर्मदेशना। सा च भवभयमथनी परोपकारतः। कालचक्रानुविद्धा अच्युतसुखानुविद्धा शून्यतादेशनेति नियमः। एवं च एते सप्ताभिषेका. कलुषमलहरा मण्डले सम्प्रदेया आचार्येण शिष्येभ्य इति तथागतनियमः सप्ताभिषेकदाने वज्राचार्याणामिति // 19 // 15 'इदानीमभिषेकफलमुच्यतेसिक्तः सप्ताभिषेकैव्रजति शुभवशात् सप्तभूमीश्वरत्वं भूयोऽवैवर्तिकाद्यां प्रविशति नियतं कुम्भगुह्याभिषिक्तः / प्रज्ञाज्ञानाभिषिक्तो भवभयमथनं मञ्जुघोषत्वमेति मलापत्ति कदाचिद् व्रजति शठवशान्नारकं दुःखमेतत् // 10 // सिक्त इत्यादिना। इह सप्ताभिषेकैरभिषिक्तः सन् महामण्डले व्रजति शुभवशात सप्तभूमीश्वरत्वम्। यदि मण्डलचक्रं साक्षात्करोति, तदा तेनैव कायेन सप्त- 25 1. च. 'ते' नास्ति / 2. च. 'इह' नास्ति, ग. 'इह सर्वतन्त्रेषु' नास्ति / 3. ग. तयेति / 4. च. विहारविहरणे / 5. क. ख. छ. वैते। 6. क. इदानीं सप्ताभिषे० / 7. च. छ. तदाऽनेनैव /